SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte प्रद्योतसैन्ये पतितो बध्वा प्रद्योतः पुरे नीतो महाराडित्यवध्यो महर्ज्याङ्गारवतीमुदवाहयद्, द्वाराणि मुक्तानि, प्रद्योतस्तत्र स्थितः । अन्य आस्तेन सुर्यै उपवासः कृतः, सुर्या डिम्भानि कृतानि निमित्तं ग्राहितं । प्रद्योतः पुरं भ्राम्यनीक्षते ऽल्पवलं धुन्धुमङ्गारवतीं पप्रच्छ कथमहं बद्धः, तया साधुगीरुक्ता, ततः साधुमूचे वन्दे नैमित्तिकक्षपक ! इति । स भगवानुपयुक्तो यावद् बालरूपाणि स्मृतानि । चन्द्रयशःसुजातधर्मघोषवारत्तकैः संवेगाद्योगाः संगृहीताः ।। १२९७-९८ ।। केऽपि सम्बन्धमङ्गाRadiदीक्षां यावद्वदन्ति । प्रणिधिर्माया सा भावतो द्रव्यतश्च तत्र ' भरु ' भरुयच्छे जिणदेवो,भयंतमिच्छे(ते) कुणाल भिक्खू य। पइठाण सालवाहण, गुग्गुलभगवं च णहवाहणे । भृगुकच्छे जिनदेवो गुरुस्तत्र भदन्तमित्रः कुणालश्च बन्धू बौद्धौ वादिनौ पटहं वादयतः, सूरिश्वैत्यवन्दनके गतः श्रुत्वा अवादयत्, राजकुले वादे जितौ चिन्यतोऽस्य सिद्धान्तं विनोत्तरदानं नेति दम्भाद्दीक्षितौ पठतोः श्रुतं परिणतं भावतः प्रपद्य जात । एषा भावे प्रणिधिः । भृगुपुरे नहवाहनं नृपं समृद्धं प्रतिष्ठानाच्छालिवाहनः सबल एत्याऽरुणत् । नहवाहनो यो | वैरिहस्तशीर्षाद्यानयेत्तस्य लक्षं कोटिं दत्ते । एवं तन्नरै रिपुनरा हतास्ततः क्षीणनरो रिपुर्ववले । एवं द्वितीयवर्षेऽप्येतो नष्टः, एवं काले यात्यमात्येनोक्तं मां दोषानिर्विषयी कुरु, कुटुम्बं बघान । तेन तथैव कृते स प्रतिष्ठानान्निर्गत्य, गुगुलभारं लावा भृगुं तत्स्थात् । अन्यराजैर्ज्ञातं हालेन मन्त्री निःक्षिप्त इति । भृगुपुरे कैः कैः पृष्टः कोऽसीत्यजानतां वक्ति गुग्गुलभगवनामाऽहं जानतां तु वक्ति राज्ञैवं कृतः, नहवाहनेन ज्ञात्वा स्वयमेत्य स्वमन्त्रित्वेऽस्थापि । मन्त्री नृपं विश्वास्योचे पुण्यै राज्यं लभ्यते ततोऽन्यभवस्य शम्बलं कार्यमिति । चैत्यकूपवाप्यादीन् विधाप्य स स्वहीनः कृतः, हाल एतो मन्त्रिणाऽचालि । २० For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy