________________
का
आवश्यकनियुक्ति दीपिका॥
प्रतिक्रमणाध्ययने योगसंग्रहे
संवेगे वारत्तकोदाहरणम् ।।
॥११४॥
नाAL
श्राद्धी कृता दध्यौ मद्दोषेणैषोऽपि विनष्ट इति संवेगादनशनात्तेन नियमिता देवोऽभूदवधिना ज्ञात्वैत्य नत्वाऽऽह किं कुर्वे ? सोऽपि संवेगाजगौ यदि पितरौ मिलतस्ततो वीक्षे, ततः सुरश्वम्पाया ऊध्वं शिलां विचक्रे, राजा पोराश्च धूपहस्ताः पादपतिता विज्ञपयन्ति । देवोऽवग हा! दासाः! श्रावकोऽमात्येन मुधाऽधर्षि, अद्य वश्चरये, ततो मुश्चे यद्यानयत, राजाद्या आहुः क स देवोऽवगुद्यानेऽस्तीति । स सुरेण तत्राऽऽनीतः, सुरूपः कृतः, राज्ञा सपोरेण गत्वा क्षामितः, स प्रबजितः पितरौ च, त्रीणि सिद्धानि । राज्ञा धघोषो निर्विषयीकृतो राजगृहे स्थविरान्ते दीक्षितो बहुश्रुतो जातो विहरन् वारत्रपुरेऽगात्तत्राऽभयसेनो राइ, वारत्तो मन्त्री, साधुर्भिक्षार्थी वारत्तगृहं गतस्तत्र खण्डघृतयुक्तपायसस्थालं निष्कासितं, ततो बिन्दुः पतितः। स च परिशाटित्वान्नैच्छद् , वारचो गवाक्षेणेक्षते । कुतः साधुनैच्छदिति तस्य ध्यातुर्यावत्तत्र मक्षिका लीनास्ता लातुं पल्ल्यस्ता लातुमोतुस्तमनु गृहप्रान्तश्वा तमनु वास्तव्यः श्वाऽऽयातः, स त्वन्यशुना भण्डते, तावत्स्वस्वामिनौ भण्डेते, मारामारी, बहिर्निर्गतयोर्द्वयोः श्वेशोर्बलं मिलितं, महासंग्रामोऽभूत्ततो वारत्तको दध्यावेतेन हेतुना नाऽऽत्तं साधुनेति शुभाशयाजाति स्मृत्वा बुद्धः, सुर्या भाण्डकं दत्तं वारत्तकर्षिविहरन् सुसुमारपुरं गतः। तत्र धुन्धुमारो राट, तस्याऽङ्गारवती सुता रूपिणी श्राविका, तया परित्राजिकैका वादे जिता, सा द्वेषाध्यौ कन्यां सपत्नीदःखे पातयामीति चित्रे तस्या रूपं लिखित्वाऽवन्त्यां प्रद्योतस्य दर्शितं । प्रद्योतेन तस्याः कृते दुतः प्रेषि, स धुन्धुमारेणाऽसत्कृत एतः, प्रद्योतः क्रुद्धो निर्गत्य सुसुमारं रुरोध । धुन्धुरल्पबलोऽन्तस्तस्थौ। वारत्तकर्षिर्यक्षगृहे चत्वरान्ते स्थितोऽस्ति । धुन्धु तो नैमित्तिकं पृच्छति, स निमित्ताय यान् बालानि भीतानि वारत्तकान्ते गतानि रुदन्ति तेन मा भैष्टेत्युक्तानीति श्रुत्वा नृपमाह तव जयोऽस्ति । ततः स मध्याहे
॥११४॥
Jan Education in
For Private & Personal Use Only
Jww.jainelibrary.org