SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || ॥ ११२ ॥ Jain Education Inte दातुमक्षमः प्राग्विदेहे श्रीसीमन्धरान्ते गतो युगबाहुहरिं किं शौचमिति पृच्छन्तं प्रभुं च सत्यं शौचमित्युत्तरयन्तं श्रुत्वा तथाऽपरविदेहे श्रीयुग मन्धरं महाबाहुहरिपृष्टं सत्यं शौचमिति वदन्तं श्रुत्वाऽऽगम्य कृष्णं प्रति सत्यं शौचं जगौ । कृष्णेन किं सत्यमिति पृष्टस्तदजानानो यत्रैतत् पृष्टं तत्र सत्यमपि प्रष्टव्यमिति हसितो जगौ सत्यं प्रभुर्न पृष्ट इति ततो ध्यायन् जातजातिस्मृतिः प्रत्येकबुद्धोऽभूत् प्रथमं सत्याख्यमध्ययनं जगादेति शौचाद्योगाः संगृहीताः || १२९१ ॥ सम्यक्त्वे 'साए ' " साएयम्मि महाबल-विमलपहे चेत्र चित्तकम्मे य। निष्पत्ति छुट्टमासे, भुमीकम्मस्स करणं च ॥१२९२ साकेते महाबलो राइ, विमलप्रभाकरौ चित्रकारौ । राज्ञा दूतः पृष्टोऽन्यनृपेभ्यो मे किमूनं ? दूतेन चित्रसमेत्युक्ते तयोश्चित्रकृतोः सभा विभज्याऽर्पि, एकेन चित्रं परेण भित्तेः परिकर्म कृतं । षष्ठे मासे चित्रस्य निष्पत्तिर्भूमिकर्मणः करणं च जातं । द्वयोरन्तरे यवनिकाऽभूत् सा राज्ञाऽपनीताऽन्यभित्तौ प्रतिबिम्बे दृष्टे तुष्टेन तथैवाऽस्थाप्येवं सम्यक्त्वं निर्मलं कार्यं ।। १२९२ ।। समाधौ ' णय सुदंसणपुरं, सुसुणाए सुजस सुबए चेव । पवज्ज सिक्खमादी, एगविहारे य फासणाया ॥१२९३ ॥ सुदर्शनपुरं नगरं, तत्र सुसुनागश्रेष्ठी, सुयशाः प्रिया, सुतः सुव्रतो गुणी सभाग्यः । स यौवने प्रव्रज्य शिक्षादि-द्विविधां शिक्षामादितः सिद्धान्तरहस्यं ज्ञात्वैकत्वविहारप्रतिमां स्थितः । शक्रेण तत्प्रशंसा कृता, देवाभ्यां क्रमादहो ! ब्रह्मचारीति For Private & Personal Use Only प्रतिक्रमणाध्ययने योगसंग्रहे सम्यक्त्व समाध्यो रुदाहरणे ॥ ॥ ११२ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy