________________
व्युच्छिन्नानि । एवं शिक्षायां स्थूलभद्रस्य योगसंग्रहः ॥ १२७९ ॥ निःप्रतिकर्मत्वे वैधर्मे दृष्टान्तः 'पइ' पइठाणे नागवसू, नागसिरी नागदत्त पव्वजा। एगविहा सटाणे, देवय साह य बिल्लगिरे ॥१२८०॥
प्रतिष्ठानपुरे नागवसुश्रेष्ठी, नागश्रीभार्या, श्राद्धो नागदत्तसुतो दीक्षितो जिनकल्पिनां पूजां दृष्ट्रैकत्वविहारार्थमुत्थाने उपक्रमे जाते सति गुरुनिषिद्धोऽपि जिनकल्पं प्रपद्यैकाकी यक्षगृहप्रतिमास्थः शासनदेवता मा व्यनङ्क्षीदिति स्त्रीरूपेणोपहारमादाय यक्षमर्चित्वोचे लाहि भो ! उद्धृतं, स च तद्भुक्वा निशि प्रतिमास्थोऽस्वापत्वादतिसारवान् जातः । सुर्या गुरोस्तदुक्तं, गुरुभिः साधू प्रेषितावानीतः, सुर्युक्तं बिल्वगिरौषधं दत्त्वाऽरुक्कृतः शिक्षितश्च नैवं साधुना प्रतिकर्म कार्यमिति ॥ १२८० ॥ तपस्यज्ञानतायां 'कोसं' कोसंबिय जियसेणे,धम्मवसूधम्मघोस धम्मजसे। विगयभया विणयवई,इड्डिविभूसा यपरिकम्मे१२८१ ___ कौशाम्ब्यामजितसेनो राइ, धारिणी राज्ञी, धर्मवसुर्गुरुः, शिष्यौ धर्मघोषधर्मयशसौ । विगतमया महत्तरा विनयवती शिष्यिणी, तया भक्तं त्यक्तं संधेन महर्द्धिसत्कारविभूषया निर्यामिता मृता । ततः शिष्यौ संलेखनायै तपस्तुलनां परिकर्म कुर्वतः ॥ १२८१ ।। इतः 'उज्जे' उज्जेणिवंतिवद्धण-पालगसुयरटुवद्धणे चेव। धारिय(णि) अवंति-सेणेमणिप्पभावच्छगातीरे॥१२८२॥
उज्जयिन्यां प्रद्योतसुतौ गोपालपालको, आयो दीक्षितः, पालको राजाऽभूत्तस्याऽवन्तिवर्धनराष्ट्रवर्धनौ सुतौ, पालकस्तो
Jain Education inte
For Private & Personal Use Only
TAw.jainelibrary.org