________________
कुलणिस्साए विहरइ, ठवणकृलाणि य अकारणे विसइ । संखडिपलोयणाए, गच्छह तह संधवं कुणई ॥४॥ कुलानि श्रद्धावतां, रसगृद्धस्तनिश्रया विचरति । गुरुग्लानाद्यर्थं स्थापितानि कुलानि निःकारणं प्रविशति । संखड्यन्तेऽत्र जीवा इति संखडी विवाहाद्या । तत्र कौतुकाल्लोभाद्वा तथाऽऽदर्शादौ रूपप्रलोकनाय याति । मातापित्रादिसम्बन्धेन संस्तवं परिचयं दातुर्गुणस्तवं वा करोति ।।
ओसन्नोऽवि य दुविहो, सव्वे देसे य तत्थ सव्वम्मि । अबद्धपीठफलगो, ठवियभोई य णायव्वो ॥५॥ 'अबद्धपीठे "ति काष्ठमयसंस्तारकालामे वंशादिखण्डैदृढ बन्धान दत्वा वर्षासु संस्तारकः कार्यः, स च पक्षसन्ध्यादौ बन्धापगमेन प्रत्युपेक्ष्य इत्याज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽबद्धपीठफलकः, यद्वा पुनः पुनः शयनादिहेतुं नित्यास्तीर्ण2ी संस्तार एकान्तानास्तीर्णसंस्तारो वा, उद्धपीठफलको वा यद्वा ऋतुबद्धे वर्षाव्यतीते काले पीठफलसेवी स्थापितकभोजी च । देशावसन्नमाह
आवस्सगसज्झाए, पडिलेहणझाणभिरकऽभत्तद्वे । आगमणे णिग्गमणे, ठाणे य णिसीयणतुयट्टे ॥६॥ की आवश्यके १, स्वाध्याये २, प्रत्युपेक्षणायां ३, ध्याने 'किं मे कडं किंच मे किच्चसेस 'मित्यादिरूपे एषु सूत्रोक्तयुक्त्यो
पयुक्तो न यतते ४ । भिक्षायां सुखार्थी न याति अनुपयुक्तः सदोषां वा लाति ५, भक्तार्थे इति भोजनमण्डल्यां नात्ति
क्षेत्रावतीत संयोजनादिदोषदुष्टं वा भक्तमत्ति ६, आगमनेन नैषेधिकी ७, निर्गमने आवश्यकीं न करोति ८ । स्थाने इति | कायोत्सर्गे गमनागमनादिसत्के प्रमाद्यति ९, निषीदने त्वग्वर्त्तने च संदंशभूप्रमार्जनादि न कुर्यात् । एतदेवाह
Jain Education in
a l
For Private & Personal use only
www.jainelibrary.org