________________
आवश्यक
निर्युक्तिदीपिका ||
॥१०६॥
Jain Education Inter
नोचे । तृतीयेऽट्टणोक्त्या सजः फलिहमल्लः पार्श्वायातस्य मात्सिकस्य फलिहवच्छिरोऽलाद्, राज्ञा पताकादिनाऽर्चितः, एवं गुरुरगुणः शिष्यो मल्लः प्रहारा मन्तवः यस्तान् गुरोर्वक्ति तस्याऽऽराधनापताका त्रैलोक्यरङ्गान्तः ।। १२७४ ।। उक्ताssलोचना, अथ निरपलापः 'दन्त दंतपुरदन्तचके, सच्चवदी दोहले य वणयरए । धणमित्त धणसिरी य पउमसिरी चैव दढमित्तो। १२७५।।
,
दन्तपुरे दन्तचक्रोश, सत्यवती भार्या, तस्या दोहदो दन्तप्रासादक्रीडाये, राज्ञा दन्तार्थं घोषणा दत्ता, दन्तानां यथा मूल्यं दास्ये सतामदाने दण्डः । तत्र धनमित्रश्रेष्ठिनो धनश्रीपद्मश्रियौ भायें, लघ्वीष्टाऽन्यदा कलौ वृद्ध्या लव्युक्ता कस्तवगर्वः ? किं सत्यवतीवद्दन्तप्रासादस्ते भावी? तयोक्तं चेन्न स्यात्तदाऽहं नेति द्वारं बध्वाऽस्थात्, श्रेष्ठी तज्ज्ञात्वा मित्रेण दृढमित्राख्येन राजछन्नवनचरेभ्यः पुलिन्देभ्योऽलक्तकादि दच्या दन्तान् तृणैः पिधायानाययत । गवाकृष्टेषु तृणेषु दन्तदर्शनातारक्षैर्मित्रे नृपोक्त्या वधाय नीयमाने श्रेष्ठी राजांहयोः पतित्वा यथार्थमूचे राज्ञाऽचित्वा मित्रं मुक्तं परेषां तु तन्मन्तुनाज्ञापि । एवं गुरुणाऽपि निरपलापेन भाव्यं ।। १२७५ ।। अथाऽऽपत्सु दृढधर्मतेति द्रव्यापदि दृष्टान्तः 'उजे ' उज्जेणीए धणवसु अणगारे धम्मघोस चंपाए। अडवीए सत्थविव्भम, वोसिरणं सिज्झणा चैत्र॥१२७६॥
उज्जयिन्यां धनवसुः सार्थवाहश्चम्पां याति तत्सार्थे धर्मघोषोऽनगारथ । चौरैः पतितैः सार्थस्य विभ्रमः पृथक् पृथग्गमनं जातं, कैश्वित्सममृषिरटवीं प्राप्तस्तैः कन्दादिभिर्निमन्त्रितोऽनिच्छन् शिलायां भक्तस्य व्युत्सर्जनं कृत्वा केवली भूत्वा सिद्धः । १२७६ ।
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
योगसंग्रहे
निरपलापे
उदा
हरणम् ॥
॥१०६॥
Taw.jainelibrary.org