SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रभावादुत्थितो वर्धितोऽपि से' तस्य महत्वादावन्तरायं विघ्नं करोति २८, सेनापति तथा प्रशास्तारं कलागुरुं राजानं स्वामिनं हन्ति भर्तारं हन्ति, राष्ट्रस्य वा निगमस्य वा नायकं श्रेष्ठिनं वा हन्ति २९, अपश्यन्नपि पश्यामीति वक्ति देवोऽहमिति वा वक्ति, देवानामवर्णवादेनते कामगर्दभा धर्मालसा इत्यादिभाषणेन महामोहनीयं कर्म भवशतवेदनीयं करोति ३०, ।। ४१ । 'एगतीसाए सिद्धाइगुणेहिं ' एकत्रिंशता सिद्धस्याऽऽदावादेरारम्य गुणैः सिद्धादिगुणैः, सहभाविनो हि गुणा उच्यन्ते क्रमभाविनः पर्याया उच्यन्ते । तत्र 'पडि' पडिसेहेण संठाण-वण्णगंधरसफासवेए य । पणपणदुपणट्ठतिहा, इगतीसमकायसंगरुहा ॥१॥ ___संस्थाने वर्णगन्धरसस्पर्शवेदेषु च क्रमात्पश्चपञ्चद्विपश्चाष्टत्रिभेदेषु प्रतिषेधनमभावः, तेन सिद्धगुणा अष्टाविंशतिस्तथा N] सिद्धोऽकायोऽदेहः २९ असङ्गो निःकर्मा ३० अरुहोऽजन्मा ३१ । संस्थानं वृत्त १ व्यत्र २ चतुरस्र ४ दीर्घ ४ परिमण्डल ५ भेदं, तत्र सिद्धो न वृत्तः १ न व्यस्रः २ इत्यादि यावत्सिद्धो न क्लीवः । अथवा ' अह' अहवा कम्मे नव दरिसणंमि, चत्तारि भाउए पंच । आइम अंते सेसे, दोदो खीणभिलावेण इगतीसं ॥ १ ॥ कर्मणि कर्मविषये क्षीणाभिलापेन सिद्धस्यैकत्रिंशद्वमा यथा नव दर्शनावरणीयमेदाः, सिद्धस्तु क्षीणनवदर्शनः स्यादेवं नव सिद्धगुणाः, एवमग्रेऽपि क्षीणाभिलापेन क्षीणशब्दयोजनेन, तत्र चत्वार आयुभेदाः, पञ्चाऽऽये ज्ञानावरणेऽन्त्य इत्यन्तराये कर्मणि पञ्च, शेषे वेदनीयमोहनीयनामगोत्ररूपे कर्माणि द्वौ द्वौ भेदौ, यथा सातासातभेदं द्विधा वेद्यं, दर्शनमोहचारित्रमोहरूपं द्विधा मोहनीयं, शुभाशुभमेदाद द्विधा नामोच्चनीचमेदं गोत्रं द्विधैवं सर्व एकत्रिंशद्भेदाः क्षीणा यस्येत्येकत्रिंशद्गुणाः dww.jainelibrary.org Jan Education For Private & Personal Use Only a l
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy