________________
Jain Education I
संयमयन् पञ्चमी ५, भाव्यन्ते रक्ष्यन्ते व्रतान्यमूभिरिति भावनाः । अथ द्वितीयत्रतभावना :- अहास्यसत्यो हास्यत्यागात् सत्यवादी प्रथमा १, अनुचिन्त्य विमृश्य भाषको द्वितीया २, भाषाकाले क्रोधं ३ लोभं ४ भयं च ५ वर्जयतीति पञ्च भावनाः, स दीर्घरात्रं- मोक्षं द्रष्टा ( दृष्ट्वा ) स्यान्मुनिर्बुरेवार्थ एवं मृषां परिवर्जयेत् । अथ तृतीयव्रतभावनाः - स्वयमात्मनैव प्रभुं प्रभुसंदिष्टं वाऽवग्रहयाच्ञायां प्रवर्ततेऽनुविचिन्त्य प्रथमा १ । 'घडे मइमं निसम्म' त्ति' तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत, मतिमानाकण्यपाश्रयदातृवाचां द्वितीया २ | 'सह भिक्खु उग्गहं' सदा भिक्षुरवग्रहं स्पष्टममनुज्ञाप्य भजेत्तृतीया ३ । गुरुमन्यं वाऽनुज्ञाप्य पानभोजने भुञ्जीत वा चतुर्थी ४ | साधर्मिकावग्रहं याचित्वा स्थानादि कुर्यात् ५ एता भावना अकुर्वतोऽदत्तादानत्रतभङ्गः । अथ तुर्यव्रतभावना - आहारगुप्तो नाऽतिमात्रं स्निग्धं वा भुञ्जीत आद्या १, अविभूषितात्मा द्वितीया २, स्त्रियं न निध्यायेन्निरीक्ष्येत तृतीया, ख्यादिसंसक्तां वसतिं न संस्तवीत न सेवेत चतुर्थी ४, बुद्धो निपुणो मुनिः क्षुद्रकथां स्त्रिया सह कथां स्त्रीणां च कथां न कुर्यात् पञ्चमी ५, धर्मानुप्रेक्ष्येवं ब्रह्मचर्यं संधत्ते एवमकृतभावनो ब्रह्मव्रतविराधकः स्यात् । अथ पञ्चमव्रत भावनाः - शब्दरूप - रसगन्धान् स्पर्शान् मनोज्ञान् संप्राप्य गृद्धिं पापान निष्टान् प्राप्य प्रद्वेषं न कुर्यात् पण्डित इति पञ्चाऽपि भावनाः सदान्तो विरतोऽकिश्चनः स्यादमूर्भावना अकुर्वतः पञ्चमत्रतभङ्गः ३६ । 'छब्बीसाए दस कप्पववहाराणां उद्देसणकालेहिं ' षड्विंशत्या दशाकल्पव्यवहाराणामुद्देशकालैः श्रुतोद्देश प्रस्तावैरकृतैर्योऽतिचारस्तत्र 'दस
दस उद्देसणकाला, दसाण कप्पस्स होंर्ति छच्चे व । दस चैव ववहारस्स व होंति सव्बेवि छव्वीसं ॥ १ ॥ दश दशानामुद्देशन कालाः, कल्पस्य षड्, व्यहारस्य दशोद्देशनकालाः सर्वेऽपि षड्विंशतिः शास्त्र मेदाः । अत्र वाचनायां
For Private & Personal Use Only
www.jainelibrary.org