________________
आवश्यक
निर्युक्तिदीपिका ॥
॥१०१॥
Jain Education Inte
७ सप्त, क्रमात्पद्मग्रहणदृष्टान्तः १ त्रयोदशक्रियास्थानं २ आहारव्याख्या ३ महाव्रतादिप्रत्याख्यानोक्तिः ४ अनाचारनिषेधः ५ आर्द्रकुमारसम्बन्धः ६ नालन्दाग्रामस्थेन्द्रभूतिपार्श्वगपेढालपुत्र श्रावकविध्यादिपृच्छा ७ अर्था ज्ञेयाः । तथा षोडश समयवैतालीयादीन्याद्यानि पूर्वोक्तानीति त्रयोविंशत्यध्ययनानि ३४ । ' चउवीसाए देवेहिं ' इति पाठे ' ,
भवण
भवणवण जोइवेमाणिया य, दस अट्ठपंचगविहा । इइ चउवीसं देवा, केइ पुण बेंति अरिहंता ॥ १ ॥
भवनव्यन्तरज्योतिर्वैमानिकाः क्रमादशाष्टपञ्चैकविधाः, वैमानिका वैमानिकत्वेनाऽभिन्नत्वादेकविधा उक्तास्तैर्निन्दितैर्योऽतिचारः । ' केइ पुण बेंति अरिहंता' केचित्पुनः 'चउवीसाए अरिहंतेहिं ' इति पाठं ब्रुवते तत्राऽर्हद्भिरनादृतैरन्यथाप्ररूपितैरतिचारः ३५ । ' पंचवीसाए भावणाहिं पञ्चानां व्रतानां पञ्च पञ्च भावनाः स्युरिति पञ्चविंशतिस्तत्राऽऽद्यव्रत भावना यथा 'इरि' इरियासमिए सया जए, उवेह भुंजेज्ज व पाणभोयणं । आयाणनिक्खेवदुगुंछ, संजए, समाहिए संजमए मणोवई ॥ १ ॥ अह रससचे अणुवीइ भासए, जे कोहलोहभयमेव वज्जए । स दीहरायं समुपेहिया, सिया मुणी हु मोसं परिवज्जए सया || २ || सयमेव उ उग्गहजायणे, घडे मइमं निसम्म सइ भिक्खू उग्गहं । अणुण्णविय भुंजिज्ज, पाणभोयणं, जाइत्ता साहम्मियाण उग्गहं ॥ ३ ॥ आहारगुते अविभूयिप्पा, इत्थि निज्झाइ न संथवेज्जा । बुद्धो मुणी खुडकहूं न कुज्जा, धम्माणुपेही संघए बंभरं ॥ ४ ॥ जे सद्दरूवंरसगंधमागए, फासे य संपप्प मणुण्णपावए, गिहीपदोसं न करेज्ज पंडिए स होइ दंते विरए अकिंचणे ॥ ५ ॥
ईर्यासमितः सदा यतेत १, उपेक्ष्य निरीक्ष्य पानभोजने भुञ्जीत, वा एवकारार्थे २, अविधिनाऽऽदाननिक्षेपौ जुगुप्सत इत्यादाननिक्षेपजुगुप्सकविधिनाऽऽदाननिक्षेपकारीत्यर्थस्तृतीया ३, समाहितः सन्मनः संयमयति ४, एवं समाहितो वाचं
For Private & Personal Use Only
प्रतिक्रमणाध्ययने
पञ्च
विंशति
भावनाः ॥
॥१०१॥
www.jainelibrary.org