SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ च्छवासिनस्तु सम्यक सहते सिद्धान्तोक्तविधिना वा प्रतिक्रियां कुर्युरिति रोगपरीषहजयः १६, अनुपानहा चलने कण्टकादेः सम्यक सहनं तृणस्पर्शस्तथा कारणे शुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गीतार्थानां गच्छवासिनां गच्छनिर्गतानां च, तत्र गच्छनिर्गतजिनकल्पिकादयः कारणे निर्वस्त्रे दर्भसंस्तारे शेरते, गच्छवासिनस्तु कारणेन ते दर्भान् भूमावास्तीर्य संस्तारको त्तरपट्टको च दर्भाणामुपरि कृत्वा शेरते, मुषितोपकरणा वा, तत्रापि तुणस्पर्शसम्यक्सहनं तृणस्पर्शपरीपहजयः १७ स्वेदाल्लग्नं रजो मल उच्यते । स देहोत्थितो ग्रीष्मघाहर्गन्धो जायते, तट्टालनाय न कदापि स्नानमिच्छेदिति मलपरीपहजयः १८, सत्कारोऽनपानवस्त्रपात्रादीनां दानं, पुरस्कारः सद्भूतगुणोत्कीर्तनवन्दनाभ्युत्थानासनदानादि, ताभ्यां कृताकृताभ्यां रागद्वेपाकरणेन सत्कारपुरस्कारपरीपहजपः १९ प्रज्ञा-बुद्धथतिशयस्तत्प्राप्तौ न गर्व इति प्रज्ञापरीषहजयः२०, कर्मविपाकजादज्ञा नादनुढेगेऽज्ञानपरीषहजयः २१, शुद्धक्रियायां पाल्यमानायामपि देवादीनेक्षेऽतः किं क्रिययेत्याधचिन्तनेन सम्यक्त्वपरीषहजयः २२ । इहलोकार्थं परवशतो वा सहतो द्रव्यपरीषहा निर्जराथं तु सहतो भावपरीपहास्तत्र प्रज्ञाज्ञानपरीपही ज्ञानावरणादलाभोऽन्तरायाद्, नाग्न्यारतिस्त्रीशय्याक्रोशसत्काराचारित्रमोहात, सम्यक्त्वपरीषहो मिथ्यात्वमोहनीयाच्छेषा वेदनीयात् स्युः ३३ । ' तेवीसाए सूयगडज्झयणेहि'त्रयोविंशत्या सूत्रकृताध्ययनरश्रद्धितर्योऽतिचारस्तानि चाऽमृनि 'पुंड.' पुंडरीयकिरियट्ठाण, आहारपरिणपञ्चक्खाणकिरिया य । अणगारअड्नालंद, सोलसाई च तेवीसं ॥१॥ पुण्डरीकं १, क्रियास्थानं २, आहारपरिज्ञा ३, प्रत्याख्यानक्रिया च ४, अनगारः ५, आर्द्रकुमाराख्यं ६, नालन्दाख्यं १ नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्काराश्चारित्रमोहादिति तत्त्वार्थोत्तराध्ययनादौ । Jain Education For Private & Personal use only www.janelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy