________________
आवश्यक नियुक्तिदीपिका ॥
प्रतिक्रमणाध्ययने
अष्टाविंशतिविध आचारप्रकल्पः ॥
॥१०॥
दशानामुद्देशानां च प्रकटत्वाच्छ्रतस्कन्धाध्ययनोद्देशा न विवक्षिताः ३७ । सत्तावीसाए अणगारगुणैः''वय''काया'
वयछक्कमिदियाणं च, निग्गहो भावकरणसचं च । खमयाविरागयावि य, मणमाईणं निरोहो य ॥ १॥
कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया । तह मारणतियऽहियासणा य, एएऽणगारगुणा ॥ २ ॥ व्रतषट्कं रात्रिभोजनविरतिसहितं ६, पञ्चानामिन्द्रियाणां निग्रहः ५, एवमेकादश गुणाः ११, भावसत्यं भावशुद्धिः १२, करणसत्यं बाह्यं प्रत्युपेक्षणादिकं १३, क्षमा १४, विरागता १५, मनआदीनां मनोवाकायानामकुशलानां निरोधः १८ एवमष्टादशगुणाः कायानां षटकं तत्पालनात् षड्गुणाः, एवं चतुर्विंशतिः २४ । यद्यपि कायपटकमाद्यव्रतान्तर्भूतं तथापि सर्वव्रतेषु यत- नायाः प्राधान्यख्यापनार्थ पृथगुक्तं, तथा संयमयोगयुक्तता समितिपालनेन रत्नत्रयाराधनेन च २५, शीतादिवेदनाधिसहना २६, तथा मारणान्तिकाधिसहना कल्याणमित्रधिया मारणान्तिकोपसर्गसहनं २७ । ३८ । 'अट्ठावीसइविहे आयारप्पकप्पे
सत्थपरिण्णा लोगो, विजओ य सीओसणिज्ज संमत्तं । आवंति धुवविमोहो, उवहाणसुय महापरिण्णा य ॥ १ ॥ पिंडेसणसिज्जिरिया, भासज्जाया य वत्थपाएसा । उग्गहपडिमासत्तेकत्तयं भावणविमुत्तीओ ॥२॥
उग्घायमणुग्घायं, आरूवणा तिविहमो णिसीहं तु । इय अट्ठावीसविहो, आयारपकप्पणामोऽयं ॥ ३॥ आचारप्रकल्पः समग्रमाचाराङ्गं, तत्र शस्त्रपरिज्ञा १, लोकविजयः २, शीतोष्णीयं ३, सम्यक्त्वं ४, आवन्ती ५, धूतं ६, विमोहः ७, उपधानश्रुतं ८, महापरिज्ञा ९, पिण्डैषणा १०, शय्या ११, ईर्या १२, भाषाजातं १३, वस्त्रैषणा १४, पात्रेपणा १५, अवग्रहप्रतिमा १६, आचाराङ्गाद्यचूला। लोकसारसप्तककसप्तमहाध्ययनान्येषा द्वितीया चूला, एवं त्रयो
॥१०२॥
Jain Education inte til
For Private & Personal Use Only
LG
ww.jainelibrary.org