________________
आवश्यक
प्रतिक्रमणाध्ययने
नियुक्ति
APIA
दीपिका ॥
एकोन
॥९७॥
विंशतिज्ञाताध्ययनानि॥
संयम इत्यर्थः । अकुसलमणवयरोहे, कुसलाण उदीरणं जं च ।२२। अकुशलयोः सपापयोर्मनोवचसो रोधे कुशलयोः पुण्ययोरुदीरणं प्रतिनं । ' मणवयसंजम एसो, काए पुण जं अवस्स कजंमि । गमणागमणं हवइ, तं उवउत्तो कुणइ सम्म' । २३ । मनोवचसोः संयम एष मनःसंयमवासंयमावित्यर्थः । काये पुनस्तं संयमं वदन्ति यथाऽवश्यकार्ये गमनागमनं भवति, तवयं सम्यगुपयुक्तः करोति । ' तवजं कुम्मस्सव सुसमाहियपाणिपायकायस्सा' हवइ काइयसंजमो, चिटुंतस्सेव साहुस्स ।२४। तर्ज गमनागमनवज कूर्मस्येव सुष्टु समाहिताः, समाधिभाजो गुप्ता इत्यर्थः, पाणिपादकाया यस्य तस्य सुसमाहितपाणिपादकायस्य तिष्ठत एव साधोः कायिकसंयमो भवति । एवं सप्तदशधा संयमो व्याख्यातो विपरीतस्तु सप्तदशविधोऽसंयमस्तस्याऽऽचरणेनाऽतिचारस्तस्य मिथ्यादुष्कृतं २८ । 'अट्ठारसविहे अंबंभे'-अष्टादशविधेब्रह्मणि कृतो योऽतिचारस्तत्र 'अउ'
अउरालियं च दिव्वं मणवइकाएण करणजोएणं । अणुमोयणकारवणे, करणेणऽट्ठारसाबंभे ॥१॥ औदारिकमब्रह्म मैथुनं नृतिरश्चोः१ तथा दिव्यं देवसम्बन्धिमैथुनं २, प्रत्येकं मनोवाकायरूपकरणानां योगेन व्यापारेगैकैकशोऽनुमोदनया कारणेन करणेनेति त्रिभिर्भऑस्त्रयाणां गुणने नवभेदा यथा मनसा न करोति १ न कारयति २ कुर्वन्तं नानुऽमन्यते ३, एवं वाचा न करोतीत्यादि ३, एवं कायेन न करोतीत्यादि ३, एवं नव भङ्गा औदारिकेब्रह्मणि नव च दिव्येब्रह्मणि, इत्यष्टादशधाऽब्रह्म २९ । ' एगूणवी०' ज्ञाताधर्मकथाध्ययनैतैिरुदारहणैर्धर्मकथा विद्यते यत्र तज्ज्ञातकथाङ्गं विश्वामित्रसमासवदाकारस्तस्याद्यश्रुतस्कन्धाध्ययनैर्नामतुल्याभिधेयैः । 'उक्खि' 'दाव'
उक्खित्तणाए संघाडे, अंडे कुम्मे य सेलए । तुंबे य रोहिणी मल्ली, मागंदी चंदिमा इय ।। १ ॥
M॥९७॥
Jain Education inte
For Private & Personal use only
ww.jainelibrary.org