________________
आवश्यक नियुक्तिदीपिका ॥
वन्दनाध्ययने अवन्धस्वरूपम्।
रात्रौ साधौ सुप्ते वा प्रभातावश्यके वा कृते भवति ३ । कतिविधश्च तस्य पिण्डः ? उच्यते द्वादशधा ‘असणाईया चउरो पाउंछणवत्थपत्तकंबलयं । सूइछुरकण्णसोहण नहहरिणी सागरियापिंडो' । पाउंछणं रजोहरणं । ' तणडगलछारमल्लगसिजा. संथारपीढलेवाई। सिजायरपिंडो सो न होइ सेहो य सोवहिओ'। शिष्यश्च सोपधिः शय्यातरपिण्डो न भवेत् ४ । अशय्यातरो वा कदा स्यात् ? उच्यते-निर्गमकालादन्वष्टप्रहरांस्त्यजन्ति, ततोऽशय्यातरः। आदेशान्तरेण तु 'सुरत्थमणे दिणनिग्गयाणं सूरोदए असागरिओ । अत्यमिय निग्गयाणं बारसजामाउ सागरिओ'।१। सूर्यास्तमनकाले दिने सति निर्गतानां सूर्योदये जाते सति असागारिकोऽशय्यातरः स्यात् , एवं ४ यामाः, अस्तमनादनुनिर्गतानां तस्यां रात्रौ अन्यस्मिंश्चाहोरात्रे गते शय्यातरः स्यादेवं १२ यामाः सागारिकपिण्डः५। कस्य परिहर्त्तव्यः? उच्यते 'लिंगत्थस्स उ वजोतं परिहरओ व मुंजतो वावि । जुत्तस्स अजुत्तस्स व रसावणो इत्थ दिद्रुते'। तं शय्यातरपिण्डं परिहरतो भुञ्जानस्य गुणैर्युक्तस्यायुक्तस्य वा लिङ्गस्थस्य शय्या- | तरो वर्व्यः । रसापणो दृष्टान्तः यथा-महाराष्ट्र कल्पपालापणे मद्यं भवतु मा वा परं ध्वजो बध्यते तं दृष्ट्वा सर्वे भिक्षाचराधास्तु त्यजन्ति । एवं यस्य धर्मध्वजो दृश्यते तस्य शय्यातरो वयः ६ । दोषाः के तस्याऽऽदाने ? उच्यते 'तित्थयरपडिकुट्ठो १ अन्नायं २ उग्गमो वि य न सुज्झे ३ । अविमुत्ति ४ अलाघवया ५ दुल्लहसिजा य ६ वोच्छेओ ७' । व्याख्यासर्वार्हद्भिनिषिद्धो यतः 'पुरपच्छिमवजेहिं अवि कम्मं जिणवरेहिं । लेसेणं भुत्तं विदेहिएहि य न य सागारिस्स्स पिंडो उ'। कर्मेत्याधाकर्म तच्च पूर्वपश्चिमवर्जजिनैवैदेहिकैश्च यस्य कृते आधाकर्म कृतं तस्याकल्प्यं नत्वन्यस्येति तद्भुक्तं १। तथाऽज्ञातोंछो न स्यात् आसन्नवासेन ज्ञातस्वरूपत्वात् २। उद्गमोऽपि न शुद्ध्यति, कथं ? 'बाहुल्ला गच्छस्स उ पढमालियपाणगाइ
॥
३
॥
For Private & Personal Use Only
Jain Education in
www.jainelibrary.org