SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पश्चाऽऽद्यानि, विकलेन्द्रियेषु चाऽऽद्ये द्वे, अपर्याप्तावस्थायां घण्टालोलान्यायेन सास्वादनस्याऽपि भावात् । यतः सास्वादना विकले त्पद्यन्ते, तथैकेन्द्रियेष्वेकमायं शेषगत्योश्चत्वारि । तथाऽऽयुबन्धाभावे सम्यग्दृष्ट्यादिष्वष्टसु मृता वैमानिकाः स्युः । बद्धायुरप्युपशमश्रेणिस्थ उपशान्तमोहो वा मृतोऽनुत्तरसुरेख़त्पद्यते. आद्यतुर्यपश्चमषष्ठेषु मृतश्चतुर्गतिष्वपि, द्वितीये तु तिर्यङ्मनुष्येष्वेव । तथैकं जीवमाश्रित्य मिथ्यात्वस्योत्कृष्टान्तरं पटषष्टिसागरान , सास्वादनस्य पल्यासंख्यभाग, शेषाणां देशोनमधेपुद्गलपरावर्चे । जघन्यान्तरं सर्वेषामन्तर्मुहर्त, सास्वादनस्य तु पल्यासंख्यभागः। अनेकजीवानाश्रित्य प्रतिपत्त्यपेक्षयाऽविरतादीनां त्रयाणां क्रमात्सप्तचतुर्दशपञ्चदशदिनान् , पूर्वप्रपन्नानां त्वन्तरं नास्ति । उपशमश्रेणेवर्षपृथक्त्वं, क्षपकश्रेणेरयोगिनश्चोत्कृष्टान्तरं षण्मासान् , सास्वादनमिश्रयोः पल्यासंख्येयभागमिति गुणस्थानविचारः । अत्र योऽश्रद्धानादिनाऽतिचारः २५ । " पन्नरसहिं परमा०" परमाश्च तेऽधार्मिकाश्च परमाधार्मिका भवनपतिविशेषाः। 'अंबे' 'असि' अंबे अंबरिसी चेव, सौमे अ सबले इय । रुद्दोवरुद्दकाले य, महाकालेत्ति आवरे ॥ १ ॥ असिपेत्ते घेणैकुंभे, वालू वेयरणी इय । खैरस्सरे महाघोसे, एए पन्नरसाहिया ॥ २ ॥ अंबाः १ अम्बर्षयः २ श्यामाः ३ सबलाः ४ रौद्राः ५ उपरौद्राः ६ कालाः ७ तथाऽपरे महाकालाः ८ असयः ९ पत्रधनुषः १० कुम्भाः ११ वालुकाः १२ वैतरण्यः १३ खरस्वराः १४ महाघोषाः १५ एते पञ्चदश आख्याताः । अत्र चूर्णिगाथा:-" धाडिंति पहाडिंति य, हणंति विद्धंति तह निसुंभंति । मुंचंति अंबरतले, अंबा खलु तत्थ नेरइये" ॥१॥ अम्बाख्या: स्वभवनाद् नरकावासं गत्वा धाटयन्ति-सारमेयानिव शूलादिभिस्तदन्तः स्थानात्स्थानान्तरं नयन्ति, प्रधाटयन्तीतस्ततो भ्रम Jain Education For Private & Personal Use Only O ww.iainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy