________________
तृतीयं संज्वलनमाने क्षिप्त्वेत्यादि । संज्वलनलोभक्षपणं तूपशमश्रेणिवत् । तत्रोपशमश्रेणी क्लीववेदादारभ्य, क्षपकरणौ तु कषायाष्टकादारभ्य संज्वलनलोभसंख्येयखण्डान्त्यखण्डं यावदनिवृत्तिवादरः । एकसमय इदं प्रविष्टानां जन्तूनां मिथः परिणामा निवर्तनात् सूक्ष्मसंपरायापेक्षया कषायवादरखण्डवत्वाचानिवृत्तिबादरस्तस्य गुणस्थानं । सर्वेष्वप्युपशमनक्षपणकालः पृथक पृथक् अन्तर्मुहूर्त, श्रेणिसमाप्तिरप्यन्तर्मुहूर्तेनैव स्यात् । समयोनघटीद्वयमानोत्कृष्टान्तर्मुहूर्ते लघुनामसंख्यातांतर्मुहर्तानां भावात् ९। ततश्चरमं लोभखण्डमसंख्येयखण्डानि कृत्वा पृथक् पृथक् समयेनोपशमयन् क्षपयन् वा सूक्ष्मसंपरायः, संपर्येति पर्यटति भवमनेनेति संपरायः कषायोऽस्येति तस्य गुणस्थानं १० । ततः सर्वकपायोपशमे सत्युपशान्तमोहस्तस्य गुणस्थानं ११। एवमत्राऽनन्तानुबन्ध्यादेः सप्तविधस्य दर्शनमोहस्य पुवेदादेरेकविंशतिविधस्य चारित्रमोहस्य च कर्मणः क्रमेणोद्वर्तनोदयाद्ययोग्यत्वकरणेनोपशमो जातः, क्षपकस्य तु कषायक्षये क्षीणमोहगुणस्थानं । सर्वस्य मोहनीयस्योपशमे क्षये वा चतुर्दशाभ्यन्तरग्रन्थरहितत्वान्निर्ग्रन्थ उच्यते १२ । इहोपशमश्रेणिरुपशान्तमोहं यावत्स्यात् , ततोऽन्तर्मुहूत्तं यथाख्यातचारित्री भूत्वा लोभोदयादवश्यं प्रतिपतत्येव, कोऽपि मिथ्यात्वमपि गच्छति, क्षपकस्तु नैव पतति, परं प्राय एकभव एकजीवमाश्रित्यकैव श्रेणिः स्यात् । कर्मग्रन्थाशयेन त्वेकभवे श्रेणिद्वयमपि, सिद्धान्तमतेन त्वेकभव आद्याश्रेणिर्वारद्वयं स्यात् । संसारमध्ये त्वेकजीवस्य वारचतुष्कं भवति । उत्कृष्टत उपशामका एकवारं चतुःपञ्चाशल्लभ्यन्त उपशान्तमोहास्तु संख्याताः क्षपकास्त्वष्टोत्तर(शत)मानाः । भस्मछन्नाग्निसमः कर्मणामुपशमो विध्याताग्निसमस्तु क्षय इति । यदा क्षीणमोहो यथाख्यातचारित्री क्षपकनिर्ग्रन्थः सन्नन्तर्मुहत्तं विश्रम्याऽन्त्यसमययोराये
www.jainelibrary.org
Jain Education
a
For Private & Personal Use Only
l