________________
बावश्यक नियुक्तिदीपिका
॥९१ ॥
विरचनं गुणश्रेणिः। एतां च पूर्वगुणस्थानेष्वविशुद्धत्वाद्वहुकालवेद्यामल्पदलिकापवर्तनादविस्तृतां च विरचितवान् । इह तु प्रतिक्रमविशुद्धत्वादपूर्वामल्पकालवेद्यां बहुदलिकोपवर्तनाद्विस्तीर्णां च करोति । तथा बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलि- णाध्ययने कस्य प्रतिक्षणमसंख्येयगुणवृद्ध्या विशुद्धिवशात् संक्रमणं गुणसंक्रमस्तमपीहापूर्व करोति, स्थितिं च कर्मणामशुद्धत्वात् प्राग्दीर्घा चतुर्दशबद्धवानिह तु तामपूर्वां विशुद्धत्वादेव इस्त्रां बध्नातीति ८ | तत उपशमश्रेणौ चेन्नरः प्रारब्धा तदाऽनुदीर्णमपि नपुंसकवेदं, गुणततः स्त्रीवेदं, ततो हास्यरत्यरतिभयशोकजुगुप्मारूपं षट्कं, ततो नृवेदं, चेत्स्त्री तदा क्लीवं, नृवेदषट्कान्ते स्त्रीवेदं, चेत्क्लीवः तदा | स्थानानि । स्त्रीनृवेदषट्कान्ते क्लीबवेदं । ततोऽप्रत्याख्यानक्रोधप्रत्याख्यानक्रोधौ युगपदुपशमय्य ततः संज्वलनक्रोधमेवं मानमायालोभान प्युपशमयति । तत्र संज्वलनलोभमुपशमयंस्तं त्रिभागीकृत्य द्वौ भागौ युगपदुपशमय्य तृतीयांशं च संख्येयांशान् कृत्वा पृथकालेनोपशमयति । क्षपकश्रेणी त्वबद्धायुरेव श्रेणिं समापयतीति स क्षीणसम्यक्त्वांशशेषमप्रत्याख्यानप्रत्याख्यानकषायाष्टकान्तः क्षिप्ता युगपत्कषायानां प्राक् क्षपणमारभते, तन्मध्यभागं च क्षपयन् नरकगतिनरकानुपूर्वीतियग्गतितिर्यगानुपूर्वीएकेन्द्रियजातिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिः ८ आतपोद्योतस्थावरसूक्ष्मसाधारणापर्याप्तनामानि १४ निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धय एताः १७ प्रकृतीः क्षपयित्वा ततोऽष्टानां शेषं क्षपयति । सर्वमिदमन्तर्मुहर्तकालेनेति । ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्कं, ततः पुंवेदं त्रिधा कृत्वा द्वौ भागौ युगपत् क्षपयित्वा तृतीयभागं संज्वलनक्रोधे क्षिपति, नरि प्रारम्भकेऽयं क्रमः, रुयादौ प्रारम्भके तूपशमश्रेणिवत्तद्वेदक्षपणं पटकान्ते वाच्यं । ततः संज्वलनक्रोधं त्रिधा कृत्वा द्वौ भागौ क्षपयित्वा १ शुभशब्दोऽधिको भाति ।
॥९१ ॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org