SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तत्रोपशामक आदावनन्तानुबन्धिनो युगपदुपशमय्य ततो दर्शनत्रिकं युगपदुपशमयति, क्षपकस्त्वबद्धायुरनन्तानुबन्धिनो युगपत् क्षपयित्वा तच्छेषं च किंचिन्मिथ्यात्वे क्षिप्वा तेन सह मिथ्यात्वं क्षपयति । एवं मिथ्यात्वशेष मिश्रे, मिश्रशेषं च सम्यक्त्वे क्षिप्स्वा सम्यक्त्वं क्षपयति, सम्यक्त्वशेषं च कषायाष्टके क्षिप्ता वक्ष्यमाणरीत्या क्षपणक्रमाच्छ्रेणिसमाप्तौ केवली स्यात् । बद्धायुकस्त्वनन्तानुबन्ध्यादिषट्रकं प्राग्वत्क्षपयित्वा सम्यक्त्वं समस्तं क्षपयति, तदा च भोजनान्त्यकवलग्रासवत् सम्यक्त्वान्त्यदलिकक्षपणसमये सम्यक्त्वं तद्दलिकवेदनरूपं वेदकसम्यक्त्वं स्यात् । यद्यपि क्षायोपशमिके तवेदनमस्ति, परं तत्र सम्यक्त्वपुञ्जः सत्तायामस्ति, अत्र तु नास्तीति विशेषः, सम्यक्त्वक्षयान्त्यसमयाभावाच तस्मादत्र विशुद्धिरप्यधिका घटत इति । ततः सप्तकक्षये कृते सति तिष्ठत्येव । तादृशपरिणामाभावादत्र च दर्शनसप्तकस्योपशमे क्षये वा श्रेणिस्थस्योपशमिकसम्यक्त्ववतः क्षायिकसम्यक्त्ववतो वाऽष्टमं निवृत्तिवादरगुणस्थानं । अत्र प्रविष्टानां प्राणिनां परिणामा मिथो निवर्तन्ते शुद्धितारतम्येन भिन्ना भवन्ति, कषायाश्चाऽग्रेतनगुणस्थानापेक्षया बादराः। अतो निवर्तनशीलो निवर्ती, बादरकषायत्वाद्वादरः, निवर्ती चाऽसौ बादरश्च निवर्तिबादरो जन्तुस्तस्य गुणस्थानं । अस्य चाऽपूर्वकरणं इत्यपरं नाम । अकृतपूर्वाणां स्थितिघात १, रसघात २, गुणश्रेणि ३, गुणसंक्रम ४, स्थितिबन्धानां ५, पञ्चानामर्थानां करणमस्येति मत्वर्थीयेऽचि अपूर्वकरणो जन्तुस्तस्य गुणस्थानं । तत्र प्रौढस्थितीनां कर्मणामपवर्तनाकरणेनाऽल्पस्थितीकरणं स्थितिघातः, एवं रसघातोऽपि । एतौ च द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् , अत्र तु विशुद्धेः प्रकृष्टत्वात्प्रकृष्टौ कुर्यात , अत एवाऽपूर्वी । तथा विशुशिवशादपवर्तनाकरणेनोपरितनस्थितेरवतारितस्य दलिकस्याऽन्तर्मुहर्तादग्रतः क्षिप्रतरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या १६ Jain Education inte f all For Private & Personal use only ITallww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy