________________
आवश्यक- नियुक्तिदीपिका
॥९
॥
बहशोऽपि भवतीत्यत्र त्रिपुञ्जीकरणमाश्रित्य पश्चाच्च ग्रन्थिभेदमाश्रित्येति चेयं । अत्रापि मिश्रपुञ्जमादाय मिश्रं गुणस्थानमिति प्रतिक्रम३। ततोऽविरतश्चासौ सम्यग्दृष्टिश्चाऽविरतसम्यग्दृष्टिः, स च प्रथमोपशमिकसम्यग्दृष्टिः क्षायौपशमिकसम्यग्दृष्टिः क्षायिकसम्य
Nणाध्ययने ग्दृष्टिा सम्यग्दृष्टित्वेन विरतेः फलं जानाति, परमप्रत्याख्यानकषायोदयविघ्नात तां नाऽङ्गीकरोति न च पालयति, तस्य चतुर्दश गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । अत्र सावद्ययोगप्रत्याख्यानं न जानाति, नाऽङ्गीकरोति. न पालयतीति त्रिभिः पदैरष्टौ गणस्थानभङ्गाः स्युः, स्थापना । तत्राऽऽद्येषु चतुर्यु भङ्गेषु अज्ञानित्वान्मिथ्यादृष्टिः, शेषेषु त्रिषु ज्ञानवचात् सम्यग्दृष्टिः। चरमे तु
कानि ।। विरतिमत्त्वाच्छाद्धो यतिर्वा स्यात् । एतद्द्वणस्थानस्थाः सर्वदैवाऽसंख्येयाः स्यः ४ । ततो विरतश्चाऽसावविरतश्च विरताविरतः, सम्यक्त्वलाभादनु पूर्वोक्तसप्तकर्मस्थितिमध्यात् पल्यपृथक्कत्वे क्षीणे सर्वसावधप्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः कषायाः, तेषामुदये सति देशतः प्राणिहिंसादिविरतिं स्वीकुर्यात , सर्वविरतिं च न गृह्णीयात् , तस्य गुणस्थानं विरताविरत- 14 गुणस्थानं, उक्तं च-"तिविहे विहु सम्मत्ते, थोवा न विरइ उ जस्स कम्मवसा । सो अविरओत्ति भण्णइ, देसा पुण II देसविरओत्ति" ॥१॥ एते सर्वदैवाऽसंख्याताः स्युः ५ । ततो भूयः सप्तकर्मस्थितेमध्यात् संख्यातेषु सागरेषु क्षीणेषु चारित्रं लब्ध्वा संज्वलनोदये सति विपयादिप्रमादवतः प्रमत्तगुणस्थानं षष्ठं ६, अप्रमादवतो यतेरप्रमत्तगुणस्थानं सप्तमं ७, यदुक्तं-"विगहाकसायनिद्दा-सदाइरओ हवइ पमत्तत्ति । पंचसमिओ तिगुत्तो, अपमत्तजई मुणेयत्वो" ॥१॥ एतद्गुणस्थानद्वयं जघन्यतः समयेनोत्कर्षतोऽन्तर्महन परावृत्तितो देशोनपूर्वकोटिं यावत् स्यात् । एते चोत्कृष्टतः कोटिसहस्रपृथक्त्वमानाः स्युः ७ । ततः पुनः कर्मस्थितेः संख्यातसागरेषु क्षीणेषूपशमश्रेणि क्षपकश्रेणिं वा कोऽप्यारभते,
Jan Education inte
For Private & Personal use only
G
w.jainelibrary.org