________________
दोसं जाइ जस्स उदएणं। सो मीसस्स विवागो, अंतमुहत्तं हवइ कालं"॥१॥ तत ऊर्ध्वमवश्यं शुद्धपुञ्जोदयात क्षायोपशमिकसम्यक्त्वं, मिथ्यात्वपुज्जोदयान्मिथ्यात्वं च याति, यतः-"मिच्छाओ संकंती, अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसु, सम्मा मिच्छं न उण मीसं" ॥१॥ सम्यक्त्वान्मिथ्यात्वं याति न पुनर्भिश्र, एतद्गुणस्थानस्थाश्चोत्कृष्टतोऽसंख्येयाः स्युरिति ३। उक्तं कार्मग्रन्थिकमतं, सैधान्तिकमतं विदं-कोऽप्यनादिमिथ्यादृष्टिजीवो यथाप्रवृत्तिकरणेन ग्रन्थिं प्राप्य गुर्वादिसामग्रीसद्भावेऽपूर्वकरणेन ग्रन्थिभेदक्षण एव पुञ्जत्रयं कृत्वानिवृत्तिकरणेन शुद्धपुञ्जपुद्गलान् वेदयन्नुदीर्णस्य मिथ्यात्वस्य क्षयादनुदीर्णस्य च शुद्धपुञ्जीकृतत्वेन विपाकानुभवापेक्षया उपशमात्प्रदेशानुभवापेक्षया तूदयात्प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिः स्यात् । तस्य पुञ्जत्रयकरणं यावन्मिथ्याकगुणस्थानं, उक्तं च-"अप्पुबेण तिपुंज, मिच्छत्तं कुणइ कोदवोवमया । अनियट्टीकरणेणं, सो सम्मइंसणं लहह"॥१॥ सम्यग्दर्शनमिति क्षायोपशमिकसम्यक्त्वं, असौ च पुञ्जत्रये सत्यप्यनिवृत्तिकरणवशाच्छद्धपुञ्जमेव याति नाऽन्त्यो द्वौ । इह सम्यक्त्वावारकरसंक्षपयित्वा ये मिथ्यात्वपुद्गला विशोधितास्तेषां पुजो जिनवचनरुचेरनावारकत्वादपचारतः सम्यत्वमुच्यते । पुनर्भेदान्तरमाह-कोऽपि जीवो यथाप्रवृत्तादिकरणैरौपशमिकसम्यक्त्वं प्राप्याऽकृतत्रिपुञ्ज एव सास्वादनदृष्टित्वमनुभय मिथ्यात्वोदयान्मिथ्यात्वं याति । उक्तं च कल्पभाष्ये-"आलंबणमलहंती, सहसा ठाणं न मुंचई इलिया। एवं अकयतिपुंजो, मिच्छं चिय उवसमायइ" ॥१॥ यथा गात्रे समुत्क्षिप्ते सतीलिकाऽग्रेतनस्थानरूपमालम्बनमलभमाना सहसा स्थानं न मुश्चति, एवमुपशमसम्यग्दृष्टिरकृतत्रिपुञ्ज औपशमिकाच्युतो मिश्रशुद्धपुञ्जरूपं स्थानान्तरमलभमानो मिथ्यात्वमेवैति । स च कालान्तरे पुनरपूर्वकरणेन पुजनयं कृत्वानिवृत्तिकरणेन क्षायोपशमिकसम्यक्त्वं लभते, अपूर्वकरणं तु
Jain Education A
nal
For Private & Personal use only
www.jainelibrary.org