________________
बावश्यक नियुक्तिदीपिका
भ्य मिथ्यात्वपदलवेदनाऽभावादन्तर्मुहर्त्तकालमानमौपशमिकसम्यक्त्वं लभते, उक्तं च-"ऊसरदेसं दडिल्लयं च, विज्झाइ वणदवो प्रतिक्रमपप्प । इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीवो" ॥१॥ यथा वनदव ऊपरदेशं दग्धं च क्षेत्रं प्राप्य विध्यायति, IN
Nणाध्ययने शेषं स्पष्टं । तत उपशमिकसम्यक्त्वस्य जघन्यतोऽन्त्ये समये, उत्कृष्टतः पडावलिकासु शेषास्वनन्तानुबन्धिकषायोद- चतुर्दश यात सम्यक्त्वं वमन्नथवा कोऽप्युपशमश्रेणिप्रतिपतितोऽनन्तानुबन्ध्युदयात्सम्यक्त्वं वमन् सास्वादनसम्यग्दृष्टिः स्यात,
गुणस्थानजघन्यतः समयादुत्कृष्टतः पडावलिकाभ्य ऊर्ध्वमवश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिरेव भवति, तथा सह आ ईषत्तचरसास्वा
कानि ॥ दनेन वर्तत इति सास्वादनः, स चाऽसौ सम्यग्दृष्टिश्च सास्वादनसम्यग्दृष्टिस्तस्य गुणस्थानं । उक्तं च-"उवसमसमा पडमाणओ तु मिच्छत्तसंक्रमणकाले । सासायणो च्छावलि, भूमिमपतोव पवडतो" ॥ ११ ॥ मिथ्यात्वसंक्रमणकाल उपशमसम्यत्क्वात् प्रपतन् जघन्यत एकसामायिक उत्कर्षतः षडावलिकः सास्वादनः स्यात् , यथा मालात्पतन् भूमिमप्राप्तोऽन्तरालवर्ती तथा सम्यक्त्वात् पतन्मिथ्यात्वमद्याप्यप्राप्तोऽन्तरालवर्ती । एते चेकसमये कदाचिदुत्कृष्टतोऽसंख्येयाः प्राप्यन्त इति २। तथोक्तविधिना लब्धेनौषधकल्पेनौपशमिकसम्यक्त्वेन मदनक्रोद्ववदशुद्धं मिथ्यात्वमोहनीयं कर्म जीवविधा करोति-शुद्धमर्धविशुद्धमशुद्धं चेति स्थापना । त्रयाणां चैषां पुञ्जानां मध्ये यदार्धशुद्धः पुञ्ज उदेति तदा तदुदयवशाजिनमतपरमतोभयास्थावान् जन्तुरन्तर्महतं सम्यग्मिथ्यादृष्टिः स्यात् । सम्यक्त्वं मिथ्या च सम्यग्मिथ्ये, ईदृशे दृष्टी यस्य स सम्यग्मिथ्यादृष्टिस्तस्य गुणस्थान, उक्तं च-"जह गुडदहीणि विसमाणि भावरहियाणि हुंति मिस्साणि । भुजंतस्स तहोभय-तद्दिट्ठी मीसदिट्ठी य" ॥१॥ अत्र च जिनधर्मोपरि रागो द्वेषश्च न स्यादित्यस्य मिश्रदृष्ट्याख्यं तृतीयं नाम, यतः-"रागं नवि जिणधम्मे, नवि
॥ ८९॥
।
Jain Education in
For Private & Personal use only
www.jainelibrary.org