________________
शादुत्कृष्टस्थितीनि कर्माणि कुर्वन्ति । ग्रन्थिभेदं च विना न सम्यक्त्वादिलाभः, ग्रन्थि च भिवा जीवः पुनः कर्मणामुत्कृष्टस्थितीन न बध्नातीत्यत एकवारमेव ग्रन्थिभेदः स्यादिति । इतश्च कश्चिन्महात्माऽऽसन्नमोक्षसुखः प्रचुरदुर्वारवीर्यप्रसरतीव्रपरशुनेव विशुद्ध
परिणामरूपेणाऽन्तर्मुहर्त्तकालमानेनाऽपूर्वकरणेन ग्रन्थिमेदं विधाय विशिष्टतरविशुद्धिरूपमन्तर्मुहर्त्तकालमानमनिवृत्तिकरणमनुभवंस्तत्र शेषमिथ्यात्वमोहनीयस्थितेरुदयक्षणार्ध्वमन्तर्मुहर्त मुक्त्वा परतो वेद्यमिथ्यात्वदलिकामावरूपमन्तर्मुहूर्तमानमन्तरकरणं करोति । उक्तं च-“करणं अहापवत्तं, नियट्टिमनियट्टि चेव भवाणं । इयरेसिं पढम चिय, भण्णइ करणं तु परिणामो" ॥१॥ करणं यथाप्रवृत्तं १, 'नियट्टि 'त्ति निवृत्तिकरणमपूर्वकरणापरनामकं २ अनिवृत्तिकरणं ३ चैव। एतत्रयं भव्यानां स्यादितरेषामभव्यानां प्रथममेव करणं भवति । तु पुनः करणं परिणामो भण्यते । " जा गंठी ता पढम, गंठिं समइच्छओ भवे बीअं। अनियट्टीकरणं पुण, सम्मत्तपुरकडे जीवे" ॥२॥ यावदन्थिस्तावत्प्रथम, ग्रन्थि समतिक्रामतो ग्रन्थि भिदानस्य द्वितीय भवेत् , अनिवृत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे स्यात् , सम्यक्त्वं पुरस्कृतमासन्नीकृतं येन स तस्मिन् सम्यक्त्वाभिमुख इत्यर्थः।। किं चाऽस्मिनन्तरकरणे कृते मिथ्यात्वमोहनीयकर्मणो द्वे स्थिती स्यातामेकाऽन्तरकरणात् प्राक्तन्यन्तर्मुहूर्त्तमात्रा, द्वितीयात्वन्तरकरणानन्तरभाविन्यन्तःसागरकोटाकोटिमानेति, स्थापना चेयं । तत्राऽनादिकालात्प्रथमस्थितिभागं यावन्मिथ्यात्वदलि कवेदनादसौ मिथ्यादृष्टिरेव । किं चाऽर्हत्प्रणीतमेकमप्यक्षरमरोचमानो मिथ्यादृष्टिः स्याद्यतः " पयमक्खरंपि इकं जो न रोयइ सुत्तनिद्दिढें । सेसं रोयंतो वि हु, मिच्छद्दिट्ठी मुणेयबो" ॥१॥ तथा सम्यग्दृष्टिरप्यनन्तानुवन्ध्युदयान्मिथ्यात्वी स्यात् , सर्वे मिथ्यात्विनो जघन्यत उत्कृष्टतोऽप्यनन्ता एव स्युरित्युक्तं मिथ्यादृष्टिगुणस्थानं १। ततोऽन्तरकरणं प्रविष्ट आधसमयादार
T
For Private & Personal Use Only
Jain Education Intel
ww.jainelibrary.org