________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥ ८६ ॥
Jain Education Inte
,
ग्रामादीनां बहिरुत्कटुको लगंड तद्रच्छायी, शिरः पार्ष्णिभिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागः, दण्डवदायतो दण्डायतः, स एव दण्डायतको वा स्थित्वोपसर्गान् सहते ॥ ८ ॥ दशमीमाह - " तच्चाएवि एवं णवरं ठाणं तु तस्स गोदोही । वीरासण महवावी, ठाइज व अंबज वा " ॥ ९ ॥ तृतीयाऽपीदृश्येव तपोग्रामाद्वहिर्वस्त्यादिसाधर्म्यान्निवरं स्थानं तस्य गोदोहिकाऽथवा वीरासनं, यथा वामांह्रिदक्षिणोरूर्ध्वं वामोरूपरि दक्षिणोऽथवाऽऽम्रफलवत् कुब्जाकारस्तिष्ठेत् ॥ ९ ॥ ' एमेव अहोराई, छड भत्तं अपाणयं णवरम् । गामणयराण बहिया, वग्घारियपाणिए ठाणं " ॥ १० ॥ एवमेवैकादश्यहोरात्रिकी, सा त्रिभिर्दिनैः स्यात्, तत्राऽऽद्यदिन आचाम्लं कृत्वाऽहोरात्रं ग्रामनगरादीनां बहिर्विस्तारितपाणिः प्रलम्बितभुजः स्थानं करोति, द्वितीयतृतीय दिनयोस्तु षष्ठभक्तमुपवासद्वयं || १० || "एमेव एगराई, अट्ठमभत्तेण ठाणबाहिरओ । ईसीप भारगए, अणिमिसनयणेfe || ११ || वि पाए, वग्घारियपाणि ठयई ठाणं । बाघारि लंबियभुओ, सेस दसासुं जहा भणियम् " ॥ १२ ॥ एवमेव द्वादश्यहोरात्रिक्यादावाचाम्लं कृत्वा रात्रौ ग्रामादेर्बहिरीषत्प्राग्भारगत ईषन्नम्रकायोऽनिमिषनयन एकदृष्टिरचित्तददौ संहृत्य चतुरङ्गुलान्तरौ कृत्वा विस्तारितपाणिः स्थानं कायोत्सर्गरूपं तिष्ठति, सूत्र एवं 'वाघारियपाणिय'त्ति व्याख्याति, 'वाघारी 'त्यादेरर्थो लम्बितभुजः, पश्चादष्टममपानकं कुर्यादित्येषा चतुर्भिर्दिनैः स्यात् । शेषप्रतिमानां विधिं यथा 'दसासुं' दशाश्रुतस्कन्धमध्ये भणितं तथा जानीयात्। एकरात्रिक्यास्त्रिधा शुद्ध्याऽपालन उन्माददीर्घरोगधर्मभ्रंशाः, पालने स्ववधिमनः पर्याय केवलज्ञानानि स्युः । सपरिकर्मणा सर्वाः प्रतिमा दशवर्षैः पूर्यन्ते, एवं सर्वासां प्रमाणं मासा ५६ दिना २८, प्रतिमाधरा एकस्मिन्नुपाश्रय उत्कृष्टतः ( ) । प्रतिमाविचारो दशाव्यवहारप्रवचनसारोद्धारादिग्रन्थेभ्योऽलेखि ।
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
द्वादश
भिक्षु
प्रतिमाः ।
॥ ८६ ॥
www.jainelibrary.org