SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्तिदीपिका प्रतिक्रमणाध्ययने द्वादश भिक्षु ॥८५॥ प्रतिमाः।। चाऽऽहारग्रहणकालवर्ज ३ । भावतोऽन्तरायाप्रीत्यादिदोषवारणाय द्वयादीनां भुजानानामथें आनीतस्य गुर्विणीबालवत्सास्तन्यपायिकादिभिर्दीयमानस्य च वर्जनं ४ । जिनकल्पिकाः प्रतिमास्थाश्च किल गर्भमात्रे सति दात्रीं त्यजन्ति, गच्छवासिनश्चाष्टमनवममासयोस्तथा जिनकल्पिकाः प्रतिमास्थाश्च बालकं भोजननमर्थमपि निक्षिप्य ददती दात्री त्यजन्ति, गच्छवासिनस्तु क्षीरपानार्हमेव मुक्त्वा दात्री, मार्जारादिभिर्बालस्य विनाशहेतुत्वात् । प्रतिमावतो गोचरभूमयः षट् पेटाद्यास्तत्र पेटा मञ्जूषा तद्वत्संलग्नसर्वदिक्स्थगृहाटने १, अर्धपेटा तदर्धेन भ्रमेण २, गोमूत्रिका तदाकारेण वामदक्षिणतो भ्रमणे ३, पतङ्ग- विधिस्तिडवद्बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमेण ४, शम्बूकावर्ता शङ्खावर्त्तवद्गृहेष्वावर्ताकारेण भ्रान्त्वा मध्ये प्रदेशे मध्याद्वा बहिनिर्गमे च ५, गत्वा प्रत्यागता अग्रतो गत्वा वलमानस्यऽटने ६, एतासामन्यतराभिग्रहः स्यादेता एवं गोचरभूमयः । शम्बूकावतभेदद्वयगणनेन ऋजुकया च सहाऽष्टसंख्याः सामान्यतः साधूनां स्युः । तथा स यत्र प्रतिमाप्रतिपन्नतयाऽज्ञातस्तत्रैवैकरात्रं द्विरात्रं वा वसति यत्र तु ज्ञातस्तत्रैकरात्रमेव । तस्य चतस्रो भाषाः कल्पा:-याचनी संस्तारकोपाश्रयविषया १ प्रच्छनी उपाश्रयविषया सूत्रार्थसन्देहविषया च २ अनुज्ञापनी उपाश्रयपूर्वस्थितसाधुविषया ३ व्याकरणी प्रश्नोत्तरविषया दीक्षोपदेशे च ४ । त्रीणि स्थानानि दृष्ट्वा प्रतिलिखितुं ततोऽनुज्ञापयितुं ततः स्थातुं च कल्पानि, आगमनगृहं देश्यकुटीविकटगृहं १, भित्तिरहिताऽऽच्छादनरहिता वा ग्राममण्डपिका २ निर्दोषदुमूलं च ३, एवं संस्तारा अपि वाच्याः-पृथ्वीशिला उद ( इट्ट )करूपा १ काष्टशिला तलपट्टः २ यथासंस्कृतं प्रागास्तीणं प्रासुकं निश्चलं पट्टादि ३ । तत्रस्थाने स्त्री सस्त्रीको वा नरोऽभ्येति | न कल्प्यं तदपेक्षया साधोर्निर्गन्तुं प्रवेष्टुं वाग्न्यादावप्येवमेव स आकृष्टः परं नाऽऽलम्बते । अहिदृष्ट्यादीनां कण्टकाचं Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy