________________
भिक्षुस्तस्य प्रतिमाः प्रतिज्ञास्ताभिः 'मासा'
मासाई सत्तता, पढमा बितिसत्त ( सत्त ) राइदिणा । अहराई एगराई, भिक्खुपडिमाण बारसगं ॥१॥ | मासिक्याद्याः सप्तमासिक्यन्ताः एवं सप्तप्राकृतत्वादिकण्प्रत्ययलुप्, ततः प्रथमा द्वितीया तृतीया सप्तरात्रिदिवा एवं दश,
ततोऽहोगत्रिकी एकरात्रिकी चेति भिक्षुप्रतिमानां द्वादशकं, भाष्यं-'पडिवजह संपुण्णो, संघयणधिइजुओ महासत्तो। पडिमाउ जिणमयंमी, संमं गुरुणा अणुण्णाओ' ॥१॥ वज्रऋषभनाराचऋषभनाराचनाराचानामन्यतमसंहननी, धृत्या चित्तस्वाथ्येन युतो महासत्वः सात्त्विक एताः प्रतिमा जिनमते सम्यग् गुरुणाऽनुज्ञातः प्रतिपद्यते ।१। 'गच्छेच्चिय निम्माओ, जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थु, होइ जहन्नो सुयाभिगमो' ॥२॥ स च गच्छ एव वसन् निर्मातः प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः, IN आचार्यस्तु प्रतिमा प्रतिपद्यमानोऽन्यं गणधरं स्थापयित्वा गच्छाद्वहिः परिकर्म कुर्यात , स्थाप्यगणधराभावे गच्छान्तरेऽपि । तस्योत्कृष्टः श्रुताभिगमो यावद्दशपूर्वाण्यसंपूर्णानि, जघन्येन नवमस्य प्रत्याख्यानपूर्वस्य तृतीयमाचाराख्यं वस्तु यावत् । संपूर्णदशपूर्वादयो बमोघवचनत्वात् , धर्मदेशनया तीर्थे वृद्धिकारित्वात् प्रतिमां न प्रतिपद्यते । इहाऽऽद्यानां सप्तप्रतिमानां II परिकर्मणेति तुलना स्यात् , सा च जघन्यतः प्रतिमातुल्यकालमानैव ज्ञेया, उत्कृष्टतो यावता कालेनाऽऽत्मा भाव्यते। आद्ययोः प्रतिमयोः परिकर्मणा प्रतिपत्तिश्चैकस्मिन् वर्षे, यथा प्रथमं गच्छमध्ये एक मासं परिकर्मणा, ततो गच्छान्निष्क्रम्यैकमासप्रतिमा १. पुनर्गच्छमेत्य द्वौ मासौ परिकर्मणा ततो गच्छानिष्क्रम्य द्विमासप्रतिमा पुनर्गच्छमेति । एवं तृतीयस्याः परिकर्मणाप्रतिपत्तिः
ये वर्षे । तुर्यायास्तु तृतीये वर्षे, शेषाणां परिकर्मणा प्रतिपत्तिश्चाऽन्यस्मिन् वर्षे, यथा तुर्ये वर्षे पञ्चम्याः परिकर्मणा, पञ्चमे
Jain Education inte
For Private & Personal Use Only
Puww.jainelibrary.org