SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिदीपिका ॥ वन्दनाध्ययने वन्द्यावन्धविचारः। असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावइं पसत्यारं, रायाणं देवयाणि य ॥१११३॥ ___असंयतां मातरं, एवं पितरं गुरुं पितामहाद्यं सेनापति सेनान्यं( नीं) प्रशास्तारं धादिशास्त्राध्यापकं राजानं दैवतानि देवदेवीरूपाणि, चशब्दात्कलागुर्वादीन न बन्देत वन्दनं न दद्यात् ॥ १११३ ॥ 'सम' समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ॥१११४॥ ___ श्रमणं वन्देत, यत्र 'मेहावि' पाठः तत्र मेधाविनं मर्यादावन्तं, यतश्चूर्णौ मेरया धावतीति मेधावी । यत्र तु 'मेहावी'ति तत्र मेधावी न्यायस्थितः । इह मेधावी मेधाविना वन्देयवो, चउभंगो । चतर्थे भने वंदनकफलं स्यात् । संयतं सम्यक् पापनिवृत्तं । सुष्टु समाहितं रत्नत्रये उद्यतं, पञ्चसमितं पञ्चसमितियुक्तं, त्रिगुप्तियुक्तं । असंयमजुगुप्सकं निहवा ईदृशा अपि मेधाविनोऽतस्ते न वन्द्याः । यतश्चूर्णी-' एवंगुणसंपउत्ता बंदणिज्जा, न पण जे समणा मेधावी संजया जाव दुगंछगा इव प्रतिभासन्तेः जहा णिण्हगा जेण ण ते भट्टारगाण सयलं मेरं धावेतित्ति' ॥१११४ ॥ अथ कस्येति द्वारमध्ये एव वाच्यद्वाराणि पञ्च 'पंच' पंचण्हं किइकम्मं, मालामरुएण होइ दिद्वंतो । वेरुलियनाणदंसण-णीयावासे य जे दोसा॥११९५॥ ___पश्चानां वक्ष्यमाणानां कृतिकर्म न कार्य । तथा मालामरुकाभ्यां दृष्टान्तः । वैडूर्यदृष्टान्तः, ज्ञानदर्शनयोनित्यवासे, चशब्दाच्चैत्यभक्तादिषु ये दोषास्ते वाच्याः॥१११५॥ ॥२॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy