SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तृप्तोऽनङ्गेन बाध्यते, ऊनोदरिका उपवाससंस्थिता उपवाससदृशाः पञ्चशरं जयन्ति । " कामी कुणइ विभूसं, विभूसिओ कामिणीउ पत्थेइ । कयलोयमलिणवत्थो, अह्वाय जयइ पंचसरं" ॥९॥ यः कामी स्यात्स एव देहविभूषां करोति, 'नाकामी मण्डनप्रिय ' इत्युक्तेर्विभूषितश्च सन् कामिनीः प्रार्थयते, वीक्षते । कृतलोचो मलिनवस्त्रश्चाऽहाय शीघ्रं पञ्चशरं जयति २० । 'दस० समण.'' खंती' खंती य मद्दवजव, मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च, बंभं च जइधम्मो ॥ १ ॥ शान्तिमार्दवावमुक्तयः क्रोधादिकषायत्यागरूपाः, तपो द्वादशधाऽऽभ्यन्तरवाह्यभेदतः, संयमः षड्जीवरक्षा वक्ष्यमाणसप्तदशमेदो वा । सत्यं हितं तथ्यं च, शौचं परद्रव्यानाकासया चोक्षत्वमप्रमादो वा, आकिश्चन्यं निर्ममता, ब्रह्म विषयत्याग इति दशधा यतेधर्मो बोद्धव्यः । अन्ये त्वेवमिच्छन्ति “खंती १, मुत्ती, २ अज्जब ३-मद्दव ४ तह लाघवे ५ तवे चेव ६। संजम ७ चियाग ८ किंचण ९-बोधव्वे बंभचेरे य" ॥१॥ लाघवं मृषाऽदत्तत्यागेन कर्मलघुता, त्यागो यतिभ्यो वस्त्रादिदानमाकिश्चन्यमुक्तोपधावप्रतिबन्धः ॥ इह गुप्तिकषायादीनां सामायिकानन्तरदण्डकोक्तानामप्यत्र कथनं संख्यानुरोधाददुष्टं २१ । 'एका० उवासग०' उपासते यतीनित्युपासकाः श्रावकास्तेषां प्रतिमा प्रतिज्ञाविशेषास्ताभिः 'दंस' दसणवयसामाइय, पोसहपडिमा अबंभ सच्चिते । आरंभपेसउद्दिट, वजए समणभूए य ॥ १॥ दर्शनं सम्यक्त्वं १ व्रतानि द्वादश २ सामायिकं द्विसन्ध्यं ३ पौषधः पर्वसु ४ प्रतिमा पर्वरात्रौ कायोत्सर्गः ५। एषां पश्चगुणानां धर्ता, तथाऽब्रह्म ६ सचित्त ७ आरम्भ ८ प्रेष्यप्रयोग ९ उद्दिष्टाहाराणां वर्जकः १० श्रमणभृतः साधुवेषश्च Jan Education For Private & Personal Use Only T ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy