________________
आवश्यक नियुक्तिदीपिका ॥
॥७९॥
'पडि• छहिं जीवनिकायेहिं ' जीवानां निकायाः समूहास्तैर्विराधितैर्योऽतिचारः १६ । 'पडि छहिं लेसार्हि ' लेश्यते | प्रतिक्रमश्लिष्यत आत्मा कर्मभिर्यया सा लेश्या । 'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्राऽयं, लेश्याशब्दः INणाध्ययने प्रयुज्यते' । १। परिणामस्य बहुविधत्वेऽपि परिस्थूलत्वेन षड्भेदाः कृष्णलेश्याद्याः स्युस्तत्र सामान्यतो लेश्या द्विधा-द्रव्य- षट् लेश्यालेश्या भावलेश्या च । तत्राद्या कृष्णादिद्रव्यमात्रमन्या तु कृष्णादिवर्णद्रव्यावष्टम्भजातः आत्मपरिणामस्तत्र कृष्णद्रव्यावष्ट- स्वरूपं ॥ म्भादविशुद्धः परिणामो जायमानः कृष्णलेश्यैवं नीलाद्या अपि, किन्तु नीललोहितवर्णद्वययोगिद्रव्यावष्टम्भात कापोतलेश्या, लोहितवर्णद्रव्येभ्यस्तेजोलेश्या, पीतद्रव्यैः पद्मलेश्या, यतः सूत्रे — जल्लेसाई दवाई आदियइ तल्लेसे परिणामे भवति' । तथा मनःपर्याप्तिनामकर्मतो मनोयोग्यान्पुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्गलाः सहकारिकारणान्मनोयोग उच्यन्ते, मनोयोगपरिणामश्च लेश्येति । तथाऽऽवश्यकवृत्तौ लेश्याद्रव्याणि सर्वकर्मप्रतिनिस्यन्दभूतानीत्युक्तं, अन्यत्र तु योगान्तर्गतानीत्युक्तं परं योगान्तर्गतानीति घटते बहुकर्मक्षयेऽप्ययोग्यवस्थायां च लेश्याऽभावात् । अत्र दृष्टान्तो ' जह'
__जह जंबुतरुवरेगो, सुपक्कफलभरियनमियसालग्गो । दिह्रो छहिं पुरिसेहि, ते बिती जंबु भक्खेमो ॥ १ ॥ __यथा-एको जम्बूपादपः, सुपक्कफलभृतान्यत एव नतानि शालाग्राणि शिखाग्राणि यस्य सः, षड्भिः पुरुषैदृष्टस्ते ब्रुवते | जम्बूफलानि भक्ष्यामः॥१॥'किह'
किह पुण ? ते बेंतेको, आरुहमाणाण जीवसंदेहो । तो छिदिऊण मूले पाडेमुं ताहे भक्खेमो ॥ २ ॥ कथं पुनर्भक्ष्याणीति ? ते ब्रुवते, तत्रैक आह-वृक्षस्याऽऽरोहणे जीवसन्देहः स्यात्ततो वृक्षं मूलाच्छित्वा पातयित्वा च तदा
Jain Education Intel
For Private & Personal use only
law.jainelibrary.org