________________
आवश्यक नियुक्तिदीपिका ॥
प्रतिक्रमणाध्ययने पारिष्ठाप| निकी नियुक्तिः॥
॥ ७६॥
हेतौ उक्तविधिषु क्षपणं कायोत्सर्ग वर्जयेत् , लिङ्गं च पार्श्वे न मोच्यं, किन्तु मुहर्त वसतौ स्थाप्यते यथा स्वर्गतो वसतिस्थं स्वाङ्गं वीक्ष्य सम्यग्दृक् स्यात् । येन संस्तारकेण नीतः स च खण्डित्वा त्याज्य एव, अपरं 'विवड्डी'त्ति योगे वृद्धिः कार्या यथा शिवं स्यात् ॥ १२८ ॥ अथ निगमयन्नाह 'एसो'
एसो दिसाविभागो, नायव्वो दुविहदव्वहरणं च । वोसिरणं अवलोयण, सुहासुहगईविसेसो य ॥ १२९ ॥ एषोऽनन्तरगाथाद्विकस्य अर्थों दिग्विभागो दिङमात्ररूपो ज्ञातव्यो द्विविधं द्रव्यग्रहणं चेति । पूर्वकालगृहीतं वस्त्रादि पश्चात्कालगृहीतं कुशादि ज्ञातव्यं, तथा देहव्युत्सर्जनं द्वितीयेऽति विलोकनं शुभाशुभगतिविशेषश्चेत्यादि संयतपारिष्ठापनिक्युक्ता । एषां द्वारोक्तविधीनां सर्वेषामकरण आज्ञाभङ्गादि, द्वार १७॥ १२९ ॥ गताऽचित्तसंयतपारिष्ठापनिका । 'अस्सं'
अस्संजयमणुएहिं, जा सा दुविहा य आणुपुवीए । सच्चित्तेहिं सुविहिया ! अञ्चित्तेहिं च नायव्वा ॥ १३०॥ सचित्तासंयतपारिष्ठापनिका अचित्तसंयतपारिष्ठापनिका च ॥ १३० ॥ तत्र सचित्तासंयतपारिष्ठापनिकामाह- कप्प'
___ कप्पट्ठगरूयस्स उ, वोसिरणं संजयाण वसहीए । उदयपह बहुसमागम, विपज्जहालोयणं कुजा ॥ १३१ ।। काऽपि स्त्री प्रतिकूलतया स्वायशोभिया वा दुष्कालादौ जीवनाय वा 'कप्पटगरूयस्स' बालस्य संयतानां वसत्यां व्युत्सजनं कुर्यात, तत्राऽयं विधिः-दिने दिने वृषभैः प्रातरपराहे सायं वाऽर्धरात्रे वसतिः शोध्यास्त्यजन्तीं दृष्ट्वा वोलः कार्य:-एषा 'बालं त्यक्त्वा याति' । ततो लोकः समेतो यद्वेत्ति तत्करोतु चेन्न दृष्टा तत 'उदगपहे 'त्यादि, उदकहारिणीनां पथि चतुदिश्यां यत्र जनानां समागमः स्यात्तत्र प्रविहाय त्यक्त्वा पश्चान्मुखाः श्वकाकादिरक्षणायाऽवलोकनं कुर्युर्यथा जनो वेत्ति
॥ ७६॥
Jain Education Intel
For Private & Personal Use Only
Grow.jainelibrary.org