________________
वसतिः स्पष्टा १ निवेशनमनेकगृहमेकद्वारं फलहिकं २ 'साही शाखापाटकरूपा३ ग्राममध्य ४ ग्रामद्वारं ५ग्रामोद्यानयोरन्तरं ६ उद्यानं ७ उद्यानस्थण्डिलयोरन्तरं ८ नैषेधिकी स्थण्डिलं ९ एषु स्थानेषु शव उत्थिते साधूनां विधिं वक्ष्ये ॥१८॥ 'वस'
वसहि निवेसण साही, गामद्धं चेव गाम मोत्तव्यो । मंडलकंडुहेसे, निसीहिया चेव रजं तु ॥ ११९ ॥ वसतौ निवेशने शाखायां वा शव नीयमान उत्तिष्ठति वसत्यादयस्त्याज्याः १ ग्राममध्य उत्तिष्ठति ग्रामा ४ चकाराद् ग्रामद्वारे च ग्रामो मोक्तव्यः ५, एवं ग्रामोद्यानान्तरे मण्डलं देशभागः ६ उद्याने काण्डं देशखण्ड मण्डलादधिकतरं ७ उद्याननषेधिक्योरन्तरे देशः ८ नैषेधिक्यां स्थाण्डिले मोक्तव्यं राज्यं ९ । तथा परिष्ठाप्य गीतार्था मुहूत्ते पार्श्वे तिष्ठन्ति, कदाचिदुत्तिष्ठेत् , तत्र स्थण्डिल एवोत्थाय पतति वसतिस्त्याज्या । स्थण्डिलोद्यानान्तरे निवेशनमित्यादि ॥ ११९ ।। भाष्यं ' वच्चं' वच्चंते जो उ कमो कलेवर पवेसणंमि वोच्चत्थो । णवरं पुण णाणत्तं, गामदारंमि बोद्धवं ॥ २०७॥
व्रजति यः क्रमः कलेवरप्रवेशने स एव विपर्यस्तो ज्ञेयो नवरं ग्रामद्वारे नानात्वं न विपर्ययस्ततो ग्रामत्यागस्योभयत्र तुल्यत्वात् । निर्मूढश्च द्वितीयवार द्वे राज्ये त्याज्ये, तृतीये वारे राज्यानि त्रीणि ततो बहुशोऽपि प्रविशति त्रीण्येव । 'बीयं वसहिमयंते तां चिय अन्नं च मुंचए रजं, तप्पभिई तिन्नेव य रजाणि मुयंति पविसंते ' ॥ २०७ ॥ क्षेपकगाथार्थ उक्त एव । 'असि'
असिवाइकारणेहिं, तत्थ वसंताण जस्स जो उ तवो ॥ अभिगहियाणभिगहिओ, सा तस्स उ जोगपरिवुड्डी ॥ १२० ॥ अशिवादिभिः कारणैर्वसत्यादिस्थानात्यागात तत्रैव वसतां यस्य यत्तपोऽभिगृहीतमभिग्रहबद्धमनभिगृहीतं च तस्य
Jain Education Intel
For Private & Personal Use Only
Taw.jainelibrary.org