SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ एवमाद्यादीनामभावेऽग्रेतनाऽग्रेतनादिका प्रतिलेख्या, गुणस्त्वाद्याया एव । पूर्वस्यां २ सत्यां त्वग्रेतनायाः प्रेक्षणे ग्रन्थोक्तो दोषः, द्वार २ ॥ ९९ ॥ 'पुवं' पुव्वं दव्वालोयण, पुब्बि गहणं च णंतकट्ठस्स | गच्छंमि एस कप्पो, अनिमित्ते होउवक्कमणं ॥ १० ॥ ___ साधवस्तिष्ठन्त एव पूर्व तृणडगलछारादिद्रव्यालोकनं कुर्युः । शवाच्छादनार्हाणाम् नन्तानां वहनाहकाष्ठस्य च ग्रहणं यतो विस्तारदाभ्यां यत्प्रमाणुमुक्तं तस्मादधिकानि चोक्षाकर्बुरसुगन्धिश्वेतवासांसि, एकं तले क्षेप्तुमेकं परिधापनायैकमाच्छादनायेति जघन्यतः, बहु गच्छंतु ज्ञात्वा बहूनि स्थाप्यान्यन्यथाऽऽज्ञाभङ्गः । मलिनकुचेलानि न क्षेप्याणि जननिन्दादोषभावात् । तानि वस्त्राणि वृषभाः सारयन्ति पाक्षिकादिषु प्रत्युपेक्षन्ते नाऽन्वहं मालिन्याप्तः, गच्छ एष कल्पः आचारः। काष्ठमपि पूर्वमेव ग्राह्यं यतोनिमित्ते निष्कारणेऽप्यकस्मात्कस्याऽप्युपक्रमणं मृत्तिः स्यात्तदैव काष्ठग्रहणेऽपक्रमणेऽधिकरणं स्यात् , तच्च मृतं परिष्ठाप्य सागारिकाशयं ज्ञात्वा पश्चादानेयं वा परिष्ठाप्यं वा ॥ १०० ॥ 'सह''जं वे' सहसा कालगयंमी, मुणिणा सुत्तत्थगहियसारेण । न विसामो कायवो, कायव्व विहीइ वोसिरणम् ॥ १०१॥ जं वेलं कालगओ, निकारण कारणे भवे निरोहो । छेयणबंधणजग्गणकाइयमत्ते य हत्थउडे ।। १०२ ॥ अहि निशि वा यस्यां वेलायां कालगतो निष्कारणे तदैव निष्काश्यः, स्वजनबाहुल्यसमहत्वभयादौ कारणे निरोधः स्थापनं भवेत् । स्थापने चाङ्गुल्यन्तरे छेदनं, करयोः पादयोश्चाङ्गुष्ठद्वयं संमील्य बन्धनं, संस्तारकेण च सह बन्धनं, वालादीन दरे कृत्वा गीतार्थानां निर्भयत्वेन सत्कथाभिर्जागरणं, कायिकीयुगमात्रकं च न परिष्ठाप्यं, यस्मात् कदाचिच्छबस्यो Jain Education in For Private & Personal Use Only M ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy