________________
आवश्यक
निर्युक्तिदीपिका ॥ ॥ ६२ ॥
Jain Education Inter
'सक' स्वकाष्टोद्भवेऽन्यस्मिन्ननौ वा त्याज्यः । तस्मिन्नप्यसति सदृशक्षारेणाच्छाद्यतेऽभावेऽसदृशेनापि, दीपके स्वयं विधिः ॥ २८ ॥ यथा ' उग्ग ' उद्गाल्य तैलं वर्त्ति निःपीड्य यतनयेति यथा स न निर्वाति मल्लकसम्पुटे निसृजनं त्यागः, दीपो यथायुः प्रपाल्य परिणमेन्निर्वायात् ॥ २९ ॥ ' क ' ग्लानभक्तप्रत्याख्यायकादिकार्ये यत्नेन प्राणातिपातादिरक्षार्थं सम्पुटे एव धारयेत् । कृते कार्ये पश्चादुक्तविधिना विवेचनं त्यागः । अनाभोगादात्मोत्थं अग्निग्रहणं भस्मना सह, परोत्थं आभोगात् मर्मुराग्नि भस्मान्तर्दद्यात् । वसतौ भक्त्या द्वेषाद्वोद्योतायानिं क्षिपेत् । अनाभोगालनाङ्गारां रोटीं दद्यात् । तत्रापि विधिरुत्पत्त्यादौ त्यागः प्राग्वत् इति, गतोऽग्निः ॥ ३० ॥ 'आय' अम्भस्तरणादौ वातपूर्णा भस्त्रा इत्यादि च । शूलादिकार्ये वाततुंबकादि च गृह्णीयात् । याचनादिविधिरचित्तादेः स एव ॥ ३१ ॥ ' अचि ' अचित्तमिश्रसचित्ता बस्त्यादिवाताः कालात् विज्ञेयाः । कालोऽपि द्विविकल्पः स्निग्धो रूक्षश्च तत्र व्यवहारतो दक्षिणायने स्निग्धः काल उत्तरायने रूक्षः । एकैकस्त्रिधा ॥ ३२ ॥ ' उक्को ' उत्कृष्टादिः, उत्कृष्टो मध्यो मन्दश्च । उत्कृष्टे स्निग्धे काले वर्षाऋतौ श्रावण भाद्रयोः बस्तौ वातः पौरुषीं यावदचित्तः । दृतिभवेन बस्तिभवेन वायुना मुनेः प्रयोजनं स्यात्, तथा ग्लानत्वेऽपि वायुना कार्यं स्यात् । तत्र द्वितीयायां मिश्रस्तृतीयायां सचित्तः ॥ ३३ ॥ ' मज्झि' मध्यमे स्निग्धे शरदि द्वितीयाया आरभ्य चतुर्थ्यां सचित्तः कोऽर्थः आद्यद्वितीय पौरुष्योरचित्तस्ततस्तृतीयस्यां मिश्रः, चतुर्थ्यां सचित्तः । मन्दे स्निग्धे काले हेमन्ते पौरुपीत्रयं यावदचित्तः, चतुर्थ्यां मिश्रः, पञ्चम्यां सचित्तः ॥ ३४ ॥ ' लुक्खे' रूक्षे काले मन्दमध्योत्कृष्टे माघफाल्गुनादिद्वि२मासयोः पौरुषीयावद्दिना ज्ञेयाः । बस्तिवातस्य दृतेरपि च पूर्व घ्मातस्यैवमेव ॥ ३५ ॥ ' ताहे ' यः पुनस्तदैव ध्मात्वा वस्त्यादिर्जले क्षिप्यते, स
For Private & Personal Use Only
प्रतिक्रमणाध्ययने
पारिष्ठाप
निकी निर्युक्तिः ॥
॥ ६२ ॥
www.jainelibrary.org