SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ एत्थ' ॥१९॥'वड जलं द्विधा कौयं सरोनद्यादिजं च । तत्र वर्णादिना ज्ञाते चेत्तटाकादेर्जलं, तस्य च तटं आद्रं तदा तत्र शनैः शनैस्त्याज्यं यथा प्रवाहाद्गत्वा स्थितजले मिलेत् । शुष्कतटे तु स्थिताम्बुवं वटादिपत्रं अड्डित्वा शनैः शनैस्त्याज्यं यथा उम्भराः शब्दा रेल्लुका न भवन्ति । पत्रेऽसति भाजनकर्णेऽड्डित्वा । कूपेऽपि आर्द्रतटे प्राग्वत् ॥२०॥ 'छिन्न' शुष्कतटेऽगडेऽम्बुपात्रं शिक्यकेऽवलम्बेत् तले च दीर्घदोरं बध्वा कूपजले ईपदनाप्ते तलदोरमाकृष्यावाङ्मुखपात्रेणोज्झेत् ॥ २१ ॥ 'वाघा' कूपाद्यभावस्तेनभयादिरूपे व्याघाते सपतद्ग्रहमेवाम्बु क्षीरदुमाधो निसृजेत् । पात्रेऽसति आर्द्रा पृथ्वी याच्या। अथवा अभावे उष्णाम्बुनार्दीकृत्य तत्र प्रक्षिपेत ॥ २२ ॥ अथवा 'चिक्खि' निर्व्याघाते चिखिल्ले वा खड्डां खात्वा पत्रप्रणालेन निसृज्य छायां कुर्यात् कण्टकादिभिश्च रक्षेत् ॥ २३ ॥ 'मीसि' प्रत्यनीक्या मिश्रितोऽप्कायो दत्तोऽनाभोगाद्रिक्तपात्रे आत्तस्तदाईपृथ्व्यादौ छर्घः, न तु कृपादौ पूर्वगृहीतेऽचित्ते जले, सच्चिते तु स्तोके आत्ते, चेत्स्थण्डिलादर्वाक परिणमति तदा परिभोगः ॥ २४ ॥ नवि' स्थण्डिलं यावद्गम्यते न च तावत्परिणमति तदा परिष्ठाप्यते, यदा हरितनुः पतति तदा प्रतीक्ष्य तस्मिन् शुष्क त्याज्य इति प्रवचनविधिना यतना। यद्यपरिणतं आत्तं न त्यज्यते तदाऽनवस्था, तथाऽन्येऽप्यपरिणतं ज्ञात्वा भुञ्जते इति प्रसङ्गश्च दोषौ इति, गतोऽप्कायः ॥२५॥ 'आय' पोट्टशूलादिकृते तापनायादितोऽहिदष्टे डंभनाय सर्पादिशङ्कायामुद्योताय वा स एवाचित्तमिश्रमार्गणादिविधिः |॥२६॥ 'अच्चि' अग्निकायस्त्रिविधोऽपि स्पष्टः। नवरं अचित्तमिश्री क्रमादीषदुष्णपाषाणाग्निवर्णपाषाणादी ज्ञेयौ । | 'एत्थे त्यादि, यत आत्तस्तत्रैव यतनया क्षिप्यते। 'सिय न दये' इति पाठे, स्यात् कदाचिद्धनिकः क्षेप्तुं न दत्ते, ततः॥२७॥ Jain Education intelli For Private & Personal use only Taww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy