________________
Jain Education Intern
परिष्ठानिकी समासो द्विधा, एकेन्द्रियैनोंएकेन्द्रियैश्च हेतुभूतैः । नोएकेन्द्रियास्त्रसादयः । 'एए' अनयोः एकेन्द्रियनोएकेन्द्रियपदयोः । २ । ' पुढ '
पुढवी आउक्काए, तेऊ वाऊ वणस्सई चैत्र । एगिंदिय पंचविहा, तज्जाय तहा य अतज्जाय ॥ ३ ॥ पृथ्व्यादय एकेन्द्रियाः पश्चविधा, एषां पारिस्थापनिकी द्विधा, तज्जाता तथाऽतञ्जाता च । भावार्थोऽग्रे वक्ष्यते ॥३, 'दुवि' दुविहं तु होइ गहणं, आयसमुत्थं च परसमुत्थं च । एक्केकंपि य दुविहं, आभोगे तह अणाभोगे ॥ ४ ॥
ननु गृहीतं परिस्थाप्यते, पृथ्व्यादीनां त्वादानं कथं ? उच्यते, द्विविधं ग्रहणं, स्वयं गृह्णत आत्मसमुत्थं, परस्माद् गृहतः परसमुत्थं । एकैकं द्विधा, आभोगे उपयोगे, अनाभोगेऽनुपयोगे च स्यात् ॥ ४ ॥ अत्र चूर्णिवृत्यर्थानुयायिगाथाः'आय' स्पष्टा ' से ' इति तस्य साधोः || ५ || ' आय ' आभोगतः आत्मसमुत्थं ग्रहणं अह्मादिना दष्टे साधौ भवेत् । तत्रेमा वक्ष्यमाणा यतना || ६ || ' मग्गि' प्रथमं गृहिभ्यः पृथ्वीकायोऽचित्तो मार्ग्यते, दायकाद्यभावे तु पश्चात् स्वयमानीयते । अचित्ताभावे एवं मिश्रो द्विविधो याच्यते आनीयते चेत्यर्थः, ततः सचित्तो वापि द्विधा याच्यते आनीयतेऽपि ॥ ७ ॥ तद्यथा 'हल' हलखननोत्थकुड्यलग्नो मिश्रः पूर्वं मृग्यते, ततः पश्चादलामे आनीयतेऽटव्याः पथः वल्मीकदग्धक्षेत्रेभ्यश्च आनीयते ॥ ८ ॥ ' मग्गि' मिश्रालाभे सचित्तो मार्ग्यते, अलाभे ' आणि ' इति यतनां कुर्यात् ।
१ एता मूलगाथाः कापि न लब्धा अतो न लिखिताः, किन्तु यथा प्रन्थकारेण तद्व्याख्या कृता तत्तथैव अत्र दर्शिता, एवमग्रेऽपि यत्र यत्र मूलगाथानुपलब्धिस्तत्र तत्र एवमेवमवगन्तव्यम् ।
११
For Private & Personal Use Only
www.jainelibrary.org