SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका प्रतिक्रमणाध्ययने ध्यान। शतकं ॥ ॥६ ॥ जति, एवं चतुर्भङ्गी स्यात् । तत्राद्यास्त्रयोऽप्रशस्ताः अन्त्ये सुप्रतिलेखितसुप्रमार्जितभङ्गः शुद्धः। तत्र गुरुमं यान् पात्रकेघदग्राहितेषु हेतुना स्थितस्तस्यैकः शिष्य इदानीमेव प्रतिलिख्य(खित इति ) स्थापयन साधुभिरुक्तोऽवकिमत्र सर्पोऽस्तीति संनिहितसुर्या सर्पः कृतः । एषोऽसमितः । समितौ तु एकः श्रेष्ठिसुतो दीक्षितः स उत्थितः पञ्चशतसाधुदण्डानत्वरितमचपलं ऊर्ध्वमधश्च प्रमृज्यार्पयति मुश्चति । ४ । उच्चारो विद्, प्रश्रवणं मूत्रं, खेलः श्लेष्मा, सिंघाणो घाणश्लेष्मा, जल्लो देहमलस्तेषां परीति युक्त्या स्थापनं सुप्रतिलेखितसुप्रमार्जितभुवि त्यागः उच्चारप्रश्रवणखेलसिंघानजल्लपरिष्ठापनं तत्र भवा उच्चारेत्यादि। पारिष्ठापनिका । इह धर्मरुचिरात्तमात्रकपरिष्ठापननियम आसनकम्पादिन्द्रस्तुत्यां पुरो मात्रे भृते साधुष्वाकुलेषु मिथ्यादृग्देवकृतकीटिकासु ज्ञातासु मृत्रं पिवन देवेन नत्वाऽरक्षि । तथा एकः क्षुल्लः सायं स्थण्डिलानि न प्रतिलिखितानीति रात्री पीडितो निरोधम् कुर्वन् सुरीकृतोद्याद्भवं वीक्ष्य व्युत्सृष्टवान् , तथैकः क्षुल्लः किं उष्ट्रा निविष्टाः सन्तीति सप्तविंशतिस्थण्डिलान्यप्रतिलिखन् सुर्या उष्ट्रान् विकुऱ्या उष्ट्रमुत्थापयन् बोधितः । अत्र सम्बन्धायाता पारिष्ठापनिकीनियुक्तिः 'पारि' ___पारिट्ठावणियविहिं, वोच्छामि धीरपुरिसपण्णत्तं, ज णाऊण सुविहिया, पवयणसारं उवलहंति ॥ १ ॥ परि सर्वभेदैः स्थापनं अपुनर्ग्रहणतया न्यासः परिस्थापना तया निवृत्त्या पारिस्थापनिकी समितिस्तस्या विधिः । धीरपुरुषैरर्थतोऽहता, सूत्रतो गणधरैः प्रज्ञप्तं, सुष्टु विहितं अनुष्ठानं येषां ते सुविहिताः, प्रवचनं सिद्धान्तस्तस्य सारं उपलभन्ते ॥ १॥'एगि' एगिदियनोएगिदिय-पारिट्ठावणिआ समासओ दुविहा, एएसि तु पयाणं, पत्तेय परूवणं वोच्छं ॥२॥ Jain Education Intel 14 For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy