SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ व्रतं नियमः महच्च तद्वतं च महाव्रतं । इह महाव्रतैः सद्भिः क्षायोपशमिकभावादौदयिकभावकरणेन योऽतिचारस्तस्मात्प्रतिक्रामामि । तत्र मार्दवक्षमाक्रियारूचित्वादिः साधोः क्षायोपशमिको भावः, क्रोधावतादिरौदयिको भावः कर्मोदयहेतुत्वादतः स वार्य एव ॥ १३ ॥ 'पडि' । पडिकमामि पंचहिं समिईहि-ईरियासमिइए, भासासमिइए, एसणासमिइए, आयाणभंड| मत्तनिकेवणासमिइए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिइए। (सूत्रम् ) संसामस्त्येन इतिः पुण्यभावेन गतिः समितिः, शुभव्यापारप्रवृत्तिरित्यर्थः। तत्रेर्या गमनं, तस्यां समितिः, यथा रथादिक्षुण्णेऽर्करश्मितप्तेऽध्वनि ज्ञानालम्बनेन यतनया युगमात्रदृष्ट्या गतिः । तत्र धर्मरुचेर्मण्डुकीदयादृष्टान्तः । भाषायां समितिः हितमितासन्दिग्धभाषणं, तत्र दुर्गरोहे साधुपार्श्वे वैरिपृच्छायां 'बहुं सुणेइ कनेहिं' इत्युत्तरं । एपणा-गवेषणा-ग्रहणैषणाग्रासैषणाभेदात्रिधा । तत्र गोचरगतेनर्षिणा सम्यगुपयुक्तेन नवकोटीशुद्धं ग्राह्यं । तत्र सचित्तं न हन्ति १ न हनयति २ घ्नन्तं वा नानुमन्यते ३ । न पचति १ न पाचयति २ पचन्तं नानुमन्यते ३ । न क्रीणाति १ न क्रापयति २ क्रीणन्तं नानुमन्यते । एवं नवकोटीशुद्धं । तत्र पश्चर्षयो महाध्वोत्तारे क्षुत्तृटक्लान्ता ग्रामेशुद्धाम्बु अलावा मृताः । आदानभाण्डमात्र| निक्षेपणासमितिः-भाण्डं सामान्यतः उपकरणं तदेव भाण्डमात्रं तस्यादाने निक्षेपणे च समितिः । इह सप्त भङ्गाः स्युःपात्रादिन प्रतिलिखति न प्रमार्जति । एवं चतुर्भङ्गी, तत्र प्रतिलिखति प्रमार्जतीति तुर्ये भङ्गे दुष्ट प्रतिलिखति दुष्ट प्रमा Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy