SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आवश्यक प्रतिक्रमणाध्ययने नियुक्तिदीपिका ॥ ॥ ५९॥ ध्यान शतकं॥ ज्याऽऽदानादि कुर्वतः असमीक्ष्य गमनादि कुर्चतश्चानाभोगिकी १४ । इहपरलोकयोराकासया लोकविरुद्धस्य चौर्यादेः करणेनानाकाङ्क्षावृत्तिः १५ । प्रयोगक्रिया विधा-मनःप्रयोगादिः, दुर्सानादिना दुष्टमनोवाकाययोगान् कुर्वतः १६, समन्तादुपादानं अष्टकर्मणां समुपादानक्रिया, सा द्विधा-देशोपघातसमुपादानक्रिया सर्वोपघातसमुपादानक्रिया च । तत्र देशोपघातः कस्यापीन्द्रियं देशेन घ्नतः, सर्वोपघातः सर्वत इन्द्रियं धनतः १७ । प्रेमवर्तिकी मायालोमाभ्यां प्रेम कुर्वतः रागहेतुवाक्यं वोदाहरतः १८ । द्वेषवृत्तिः (वर्तिकी) क्रोधमानौ स्वयं कुर्वतोऽन्यस्य वोत्पादयतः १९ । ऐर्यापथिकी द्विधा बध्यमाना वेद्यमाना च, साऽप्रमत्तः वीतरागछद्मस्थस्य केवलिनो वाऽऽयुक्तं गच्छतस्तिष्ठतः शयानस्येत्यादि । आयुक्तं सर्वकार्य कुर्वतो यावच्चक्षुःपक्षममेषोन्मेषावपि कुर्वतः स्यात । तस्यामाद्यसमये कर्म बध्यते, द्वितीये वेद्यते, तृतीये निर्जीयते च २०। एताः क्रियाः शुभाशुभकश्रिवाः स्युः ॥ ११ ॥ पडि. पडिकमामि पंचहिं कामगुणेहि-सद्देणं रूवेणं रसेणं गंधेणं फासेणं । ( सूत्रम् ) काम्यन्ते इति कामाः, जीवस्य बन्धनहेतुत्वाद् गुणवद् गुणाः । कामा एव गुणाः कामगुणाः, तत्र शब्देन रूपेण रसेन गन्धेन स्पर्शेन रक्तो द्विष्टो वा कर्मणा घोरं बध्यते, दीर्घसंसारं कुरुते । 'पडि' ___पडिक्कमामि पंचहिं महव्वएहि-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । ( सूत्रम् ) JainEducation intellel For Private & Personal use only w.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy