SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तत्रात्मभाववञ्चनं स्वचेतोभावं गृहति, निःकृत्या ऋजुतां च दर्शयति, बाह्यतो वा क्रियाटोपं दर्शयति । परभाववञ्चना कूटलेखादिभिः ३ । मिथ्यादर्शनप्रत्यया द्विधा, अनभिग्रहिकमिथ्यादर्शनप्रत्ययाऽभिग्रहिकमिध्यादर्शनप्रत्यया च । अनभिग्रहिकमिथ्यादर्शनं एकेन्द्रियवि कलासंज्ञिनां, संज्ञिनामपि कुतीर्थिकमतप्रतिपत्तौ स्यात् । अभिग्रहिक मिथ्यादर्शनप्रत्यया द्विधा, हीनातिरिक्तदर्शने तदव्यतिरिक्तदर्शने च । तत्र हीनं यथाऽणुमात्र आत्मेत्यादि । अतिरिक्तं यथा सर्वत्र आत्मेत्यादि । तद्व्यतिरिक्तदर्शने यथा नास्त्यात्मेत्यादि ४ । अप्रत्याख्यानक्रिया जीवे अजीवे च विरतिमकुर्वतोऽविरतस्य स्यादिति सा द्विधा ५ । दृष्टिकी जीवाजीवयोर्दर्शनार्थ गमने ६ । पृच्छिकी जीवाजीवयोर्वृत्तान्तं रागेण द्वेषेण वा पृच्छतः अथवा स्पृष्टिकी रागद्वेषाभ्यां जीवमजीवं वा स्पृशतः ७ । एवं जीवाजीवौ प्रतीत्य रागद्वेषाभ्यां कर्म्मबन्धेन प्रातीत्यिकी ८ । स्वीयं जीवं अजीवं प्रति बहुलोकान् समन्तादुपनिपतत आयातो दृष्ट्वा यो हर्षविषादाभ्यां कर्म्मबन्धः सा सामन्तोपनिपातिकी । तत्र जनानां देशत आगमे देशसामन्तोपनिपातिकी सर्वत आगमे सर्वसामन्तोपनिपातिकी । यद्वा प्रमत्तर्षीणां अपिहिते भक्ते पाने समन्तात्सम्पातिमजीवा उपनिपतन्ति म्रियन्ते च साऽपि ९ । नैशस्त्रिकी द्विधा जीवेऽजीवे च यथा राजाद्यादेशादुदकयन्त्रादिनोदकं निसृजति, तथा यन्त्रेण गोलादि निसृजति, यद्वा नैशस्त्रिकी जीवे जीवं निसृजति पुत्रं शिष्यं वा - अजीवे तु - मूत्रे ? (सूत्रव्यपेतं ) वस्त्रादि (पात्रं ) च १० | स्वाहस्तिकी जीवेऽजीवे वा, स्वहस्तेन ताडने ११ । आज्ञापनी जीवमजीवं वा परेणानाययतः || १२ | वैदारणिकी जीवमजीवं वा विदारयतः । यद्वा जीवमजीवं व्यापारान्निजनिजभाषया परीप्सयतीति वैचारिकी, यद्वा जीवाजीवयोरसत्यगुणाख्यानात्परं विप्रतारयतो जीवाजीवविप्रतारणिकी १३ । अनाभोगेन विस्मृत्याप्रमृ For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy