SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका || ।। ५८ ।। Jain Education Intern निष्टयो रागद्वेषाभ्यां दुर्व्यवस्थितस्य कायिक्यपि २ । तृतीया उपरतकायिकी अप्रमत्तस्य सावद्योपरतस्य सावद्यानिवृत्तस्य क्रिया ३ | १ | अधिक्रियते दुर्गतौ प्राण्यनेनेत्यधिकरणं, तत्र भवाऽधिकरणिकी । सा द्विधा प्रवर्त्तिनी निवर्त्तिनी च । आद्या यज्ञादिका यस्यां हिंसा प्रवर्त्तते । द्वितीया द्विधा मूलगुणविषया उत्तरगुणविषया च । तत्र मूलगुणविषया जन्तोः पञ्चदेहानां निवर्त्तनं १, उत्तरगुणविषया तदङ्गोपाङ्गानां निवर्त्तनं २ | यद्वा ' निव्वत्तण १ संजोयण २ थिरकरणे तह य ३ होइ निक्खेवे ४ । साइजण ५ समणुना ६ परिग्गहे ७ संपयाणे य ८ ' ॥ १ ॥ तत्र निवर्त्तनं स्थादीनां घटनं १ । संयोजनं मीलनं २ स्थिरीकरणं कीलकैः ३ निक्षेपणं गृहादौ स्थापनं ४ स्वादना परिभोगः ५ समनुज्ञाऽन्येषां भोगायानुमतिः ६ परिग्रहस्तेषां मूर्च्छा ७ सम्प्रदानं अन्येभ्यो दानं ८ इत्यादि । २ । जीवेऽजीवे च प्रद्वेषेण भवा प्राद्वेषिकी । ३ । स्वाङ्गेऽन्याङ्गे वा स्वहस्तेनान्यहस्तेन वा कुट्टनादिपरितापनभवा पारितापनिकी । ४ । कषायैमहेन स्वर्गादीच्छया वा स्वं परं च घ्नतः स्वप्राणातिपातिकी परप्राणातिपातिकी च । ५ । अत्रोपलक्षणादन्याभ्योऽपि विंशतिक्रियाभ्यः प्रतिक्रामामि ता यथा - आरम्भिकी क्रिया १ पारिग्रहिकी २ मायाप्रत्यया ३ मिथ्यादर्शनप्रत्यया ४ अप्रत्याख्यानक्रिया ५ दृष्टिकी ६ स्पृष्टिकी ७ प्रातीत्यिकी ८ सामन्तोपनिपातिकी ९ नैशस्त्रिकी १० स्वाहस्तिकी ११ आज्ञापनी १२ वैदारणिकी वैचारणिकी वा १३ नाभोगिकी १४ अनवकाङ्क्षा १५ प्रयोगक्रिया १६ समुदानक्रिया १७ प्रेमवर्त्तिकी १८ द्वेषवर्त्तिकी १९ ऐर्यापथिकी चेति २० । तत्रारम्भिकी द्विधा जीवारम्भिकी अजीवारम्भिकी च जीवानजीवांश्चारभते, तेषां आरम्भं छेदनाद्युपक्रमं कुर्यात् १ । पारिग्रहिकी द्विधा जीवाजीव पारिग्रहिकी भेदात्, जीवाजीवयोः परिग्रहं करोतीत्यर्थः २ । मायाप्रत्यया द्विधा आत्मपरभाववञ्चनाभ्यां For Private & Personal Use Only प्रतिक्रमणाध्ययने ध्यान शतकं ॥ ॥ ५८ ॥ Taw.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy