________________
॥ ८३ ॥ अमनस्कस्य कथं ध्यानमित्याह 'जह'
. जह छउमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो । तह केवलिणो काओ, सुनिच्चलो भण्णए झाणं ॥ ८४ ॥
यथा सुनिश्चलं मनः छमस्थस्य ध्यानं, तथा केवलिनः सुनिश्चलकायो ध्यान भण्यते, तुर्ये तु ध्याने रुद्धत्वात्काययोगोऽपि नास्ति ।। ८४ ।। तत्र तु ध्यानत्वमेवं 'पुच' 'चित्ता'
पुव्वपओगओ चिय, कम्मविणिज्जरणहे उतो यावि । सद्दत्थबहुत्ताओ, तह जिणचंदागमाओ य ।। ८५ ॥
चित्ताभावेवि सया, सुहुमोवरयकिरियाइ भण्णंति । जीवोवओगसब्भावओ, भवत्थस्स झाणाई ॥ ८६ ॥ काययोगरोधियोगिनोऽयोगिनो वा चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये ध्यानमेदौ भण्येते, पूर्वप्रयोगादिति हेतुः चक्रभ्रमवदिति दृष्टान्तोभ्य॒ह्यः, यथा चक्रं भ्रमहेतुदण्डादिक्रियाभावेऽपि पूर्वप्रयोगाद् भ्रमति तथाऽस्य द्रव्यमनोयोगोपरमेप्यात्मोपयोगसद्भावात् भावमनोभावोद्भवस्थध्याने इति । अपि निर्णये हेत्वन्तराण्याह 'कम्मवि०' यथा क्षपकश्रेणी कर्मनिर्जराभावात् ध्यानं तथानापि । 'सद्दत्थ.' ध्यानशब्दस्यार्थबहुत्वात् , यथा हरिशब्दोऽनेकार्थः तथा ध्यानशब्दोऽपि, 'ध्यै' चिन्तायां, 'ध्यै' कायनिरोधे अयोगित्वे इत्यपि । तथा जिनचन्द्रागमाज्जिनोक्तत्वादित्यर्थः । जीवोपयोगसद्भावतः सदेहजीवज्ञानभावाद्भवस्थस्य ध्याने स्तः ।। ८५-८६ ॥ गतं ध्यातव्यद्वा० ७, ध्यातारो धर्मध्याने एवोक्ताः । अथानुप्रेक्षा 'सुक्क'
सुक्कज्झाणसुभावियचित्तो, चिंतेह झाणविरमेऽवि । णिययमणुप्पेहाओ, चत्तारि चरित्तसंपन्नो ॥ ८७ ॥ ध्यानविरमे ध्यानापगमेऽपि नियतमनुप्रेक्षाः, ताश्चेमाः ॥ ८७ ॥ 'आस'
For Private & Personal Use Only
New.jainelibrary.org
Jain Education Inter