SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ प्रतिक्रमणाध्ययने ध्यानशतकं ।। मप्रमत्तक्षीणमोहत्वादिविशेषेण युक्ता ध्यातारः, 'सुप्प ' आद्यसंहननाः। उपशामकस्य क्षपकस्य च केवलज्ञानादाक् शुक्ल-1 ध्यानाधभेदद्वयं स्यात् । परयोः शुक्लभेदयोः सूक्ष्मक्रियाऽनिवर्ति-उपरतक्रिया प्रतिपातिनोः क्रमात् सयोगायोगाः केवलिनो ध्यातारः, यतः 'सुक्कज्झाणाइदुर्ग वोलीणस्स तइयमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलं उप्पजइ, केवली सुक्कलेसो अज्झाणी य जाव सुहमकिरियमनियट्टि 'ति ॥ ६४ ॥ उक्तं ध्यातद्वारं, अथानुप्रेक्षाद्वा० ८ 'झाणो' झाणावरमेऽवि मुणी, णिच्चमणिचाइभावणापरमो । होइ सुभावियचित्तो, धम्मज्झाणेण जो पुचि ॥६५॥ यः पूर्व धर्मध्यानेन सुभावितचित्तः स ध्यानोपरमे ध्यानविगमेऽपि नित्यमनित्यतादिभावनासु परमस्तत्परो भवेत् । गतमनुप्रेक्षाद्वारं ९॥६५॥ अथ लेश्याः 'हुन्ति ' हुन्ति कमविसुद्धाओ, लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स, तिठवमंदाइभेयाओ ॥ ६६ ॥ धर्मध्यानोपगतस्य क्रमेण विशुद्धाः पीतपद्मशुक्ललेश्याः परिणामविशेषास्तीव्रमन्दादिभेदाः, आदिशब्दान्मध्यमाश्च स्युः, कोऽर्थ:-जघन्ये शुभभावे पीतलेश्या, मध्यमे शुभभावे पद्मलेश्या, उत्कृष्टशुभभावे शुक्ललेश्या स्यात् । तत्र पीतलेश्या तेजोलेश्या, द्वा० १०॥ ६६ ॥ अथ लिङ्गद्वा० ११ 'आग' ___आगमउवएसाणाणिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं, धम्मज्झाणस्स तं लिंगं ॥ ६७॥ आगमः सूत्रं १ उपदेशोऽर्थकथनं २ आज्ञाऽर्थः ३ निसर्गः स्वभावः ४ एभ्यश्चतुभ्यो यत् जिनप्रणीतानां श्रद्धानं । इह चूर्णिः ' लक्खणाणि इमाणि चत्तारि-आणाईनिसग्गरुईसुत्तरुईओगाहणारुई । आणाई तित्थगराणं पसंसन्ति, निसग्गरुई Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy