________________
उत्पादव्ययध्रौव्यात्मकं, यथा स्वर्ण घटत्वेन भग्नं मौलित्वेनोत्पन्नं सुवर्णत्वेन स्थिरमेव । गोरसं पयस्त्वेन नष्टं दधित्वेनोत्पन्न गोरसत्वेन स्थिरं । एवं धर्मास्तिकायादयोऽपि विवक्षितसमयसम्बन्धापेक्षयोत्पन्नाः, अतीतसमयापेक्षया विनष्टाः, द्रव्यत्वेन तु स्थिराः । आदितोऽगुरुलध्वादिपर्यायान चिन्तयेत ॥५२॥'पंच'
पंचत्थिकायमइयं, लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं, तिविहमहोलोयभेयाई ॥५३॥ पञ्चास्तिकायमयं, अस्तयः प्रदेशास्तेषां कायाः समुदाया अस्तिकायास्ते पञ्च, धर्माधर्माकाशजीवपुद्गलास्तिकायरूपास्तन्मयं । कालोऽस्तिकायो न, तस्य स्थिरत्वेन प्रदेशचयाभावात् । तथाऽनादिनिधनं, जिनाख्यातं नामलोकादिपूर्वोक्ताष्टमेदभिन्न, अधोलोकादिभेदं त्रिविधं लोकं चिन्तयेत् ॥ ५३॥ तत्र च ' खिइ'
खिइवलयदीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपइट्ठाणं, निययं लोगट्ठिइविहाणं ॥ ५४॥ क्षितयो धर्माद्याः ईषत्प्रारभारान्ताः ८ । वलयानि धनोदधिधनतनुवातात्मकानि भूमिसप्तको(क)परिक्षेपीणि, द्वीपाब्धयोऽसङ्खथाः, निरया नरकाः, विमानानि ज्योतिष्कादीनां अनुत्तरान्तानां, भवनान्यसुरादीनां, आदितो व्यन्तरपुराणि तेषां क्षितिवलयादीनां संस्थानमाकारविशेषं, ('वोमाइ') आदितो वायवादौ प्रतिष्ठानमवस्थितिर्यस्य तद् , नियतं शाश्वतं, लोकस्थितेविधानं प्रकारस्तश्चिन्तयेत् । उक्तः संस्थानविचयो धर्मध्यानस्य तुर्यो भेदः ४ ॥ ५४ ॥ प्रसङ्गात् ध्यातव्यविशेषमाह 'उव'
उवओगलक्षणमणाइनिहणमत्थंतरं सरीराओ । जीवमरूवि कारिं, भोयं च सयस कम्मस्स ॥ ५५ ॥ उपयोगः साकारानाकारादिलक्षणं यस्य, शरीरादर्थान्तरं पृथगभूतं, जीवमरूपिणं, कर्मणः कर्तारं, स्वकस्य कर्मणो
Jain Education inte
For Private & Personal use only
www.jainelibrary.org