________________
प्रतिक्रमणाध्ययने ध्यानशतकं ॥
आवश्यकता विरतिकषायास्तैर्जनितं, कर्मविपाकं कर्मोदयः, विपाकविचयनामा भेदः ३ ॥५१॥'जिण' नियुक्ति
जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई | उप्पायट्ठिइभंगाइ, पजवा जे य दव्वाणं ॥ ५२॥ दीपिका ॥ जिनदेशितानि जिनोक्तानि, षण्णां द्रव्याणां लक्षणसंस्थानासनविधानमानादीनि, चिन्तयेदितिषष्ठगाथोक्तेन सह
सम्बन्धः । तत्र द्रव्याणि धर्मास्तिकायादीनि । धर्मास्तिकायस्य लक्षणं गतिः, कोऽर्थः ? जीवानां पुद्गलानां चाऽसौ गत्युपग्रहकारी मत्स्यानां जलवत् १ । अधर्मास्तिकायस्य लक्षणं स्थितिः, जीवानां पुद्गलानां चासौ स्थित्युपग्रहकारी मत्स्यानां स्थलवत् २ । आकाशास्तिकायस्य लक्षणं अवगाहः, सर्वद्रव्याणां स्थानत्वादपां घटवत् ३ । पुद्गलास्तिकायस्य लक्षणं मूर्तवर्णगन्धरसस्पर्शशद्ववत्त्वं पूरणगलनात्मकं च ४ । कालस्य लक्षणं अतिक्रमणवत्वं ५। एतान्यजीवाः। जीवास्तिकायलक्षणं
चैतन्यं ६ । संस्थानं आकारः, स लोकाकाशस्य तत्रवर्तिनां धर्माधर्मास्तिकायनैश्चयिककालानां केवलिसमुद्घातगतस्य लोक| पूर्तिसमये जीवस्य कटिदत्तकरवैशाखसंस्थानस्थितपुरुषतुल्यः । वैशाखसंस्थानं विस्तारितपादाभ्यां स्यात् । समयावलिकादिकस्य व्यावहारिककालस्य संस्थानं नृक्षेत्रतुल्यं सूर्यचारप्रभवत्वात् , सूर्यचारश्च नृक्षेत्र एव, अन्यत्र पल्योपमादिव्यवहार, एतदपेक्षया ज्ञेयः । पुद्गलानां संस्थानं वृत्तव्यस्रादि । देहस्थितजीवानां समचतुरस्रादि । आसनमाधारः, तच्च धर्मास्तिकायादीनां लोकाकाशं । विधानानि भेदास्ते च 'धम्मत्थिकाए 'इत्यादि, 'धम्मत्थिकायदेसे, धम्मत्थिकायपएसे 'इत्यादि मानानि | प्रमाणानि, यथा धर्माधर्माकाशलोकास्तिकाया एको जीवश्च सममात्राः, अणुरेकप्रदेशस्थायी प्रदेशो निरंशो भागः । कालो | नृक्षेत्रमानः । ' उप्पायठिई 'त्यादि व्याख्या-ये च द्रव्याणां उत्पादस्थितिभङ्गादिपर्यायास्तान चिन्तयेत , कथं ? सर्व वस्तु
PAN
॥५१॥
Jan Education inte
For Private & Personal Use Only
allww.jainelibrary.org