SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अनेन वर्तमानातीतकालौ गृहीतो, तथा इष्टविषयादीनां सातवेदनायाश्च संयोगाभिलाषश्च । अनेनैष्यत्कालग्रहः ॥ ८॥ इष्टसम्प्रयोगनामा तृतीयो भेदः ३ । 'देविं'। देविंदचक्कवट्टित्तणाई, गुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतणमण्णाणाणुगयमञ्चतं ।। ९ ॥ देवेन्द्रादीनां गुणा रूपादयः, ऋद्धिर्विभूतिस्तत्प्रार्थनामयमनेन तपसा देवेन्द्रः स्यामित्यादिरूपं निदानचिन्तनं । अज्ञानरनुगतमाश्रितमत्यन्तं ॥ ९॥ निदाननामा चतुर्थो भेदः ४ । 'एयं' - एयं चउविहं, रागदोसमोहंकियस्स जीवस्स | अट्टज्झाणं संसारबद्धणं तिरियगइमूलं ॥ १० ॥ चतुर्विधमार्चध्यानं रागद्वेषमोहरङ्कितस्य लाञ्छितस्य जीवस्य ओघतः संसारवर्द्धनं । विशेषतस्तिर्यग्गतिमूलं ॥१०॥ ननु साधोरपि रोगेऽसमाधानं १ चिकित्साकृतौ च तद्वियोगध्यानापत्ते २ स्तथा तपःसंयमासेवने च संसारदुःखवियोगध्याना३ दार्तध्यानाप्तिः, उच्यते, सा रागादिवशगस्य स्यान्नान्यस्येत्याह 'मझ' मज्झत्थस्स उ मुणिणो, सकम्मपरिणामजणियमेयंति । वत्थुस्सभावचिंतणपरस्स समं सहतस्स ॥ ११ ॥ ___ मध्यस्थस्यैव मुनेस्तुरवधारणे नान्यस्य, स्वकर्मपरिणामजनितमेतदुःखं इति वस्तुस्वभावचिन्तनपरस्य सम्यक् सहतः कुतोऽसमाधिः अपि तु धयं ध्यानमेव ॥ ११॥ द्वितीयतृतीयपक्षावाश्रित्याह 'कुण' कुणओ व पसत्थालंबणस्स पडियारमप्पसावजं । तवसंजमपडियारं च, सेवओ धम्ममणियाणं ॥ १२॥ प्रशस्तालम्बनस्य ज्ञानार्थालम्बनवतोऽल्पसावचं प्रतीकारं कुर्वतो वाऽनिदानं धर्म्यध्यानमेवेति सम्बन्धः, सूत्रे उत्सर्गा Jain Education in For Private & Personal use only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy