________________
प्रतिक्रमणाध्ययने ध्यानशतकं ॥
आवश्यकतानो भवेत् ॥ ४ ॥' अट्ट' नियुक्ति
अट्ट रुदं धम्म, सुकं झाणाइ तत्थ अंताई। निव्वाणसाहणाई, भवकारणमट्टरुद्दाइं ॥ ५॥ दीपिका ऋतं दुःखं तत्र भवं आत्तं १ क्रौर्यानुगतं रोदयति जीवं नरके इति रौद्रं २, चरणश्रुतधर्मानुगतं धम्म्यं ३, शोधयत्यष्टकर्माणि शुचं क्लमयतीति शुक्लं । ४ तत्रान्ते इति धर्म्यशुक्ले ॥५॥ चत्वार्यपि चतुर्दा, तत्राद्यमेदानाह 'अम'
अमणुण्णाणं सदाइविसयवत्थूण दोसमइलस्स । धणियं विओगचिंतणमसंपओगाणुसरणं च ॥ ६॥ ___ अमनोज्ञानां शब्दादिविषयाधारवस्तूनां द्वेषमलिनस्य जीवस्य 'धणियं' अत्यर्थ वियोगचिन्तनं यथा कथमेभिः सह वियोगः स्यादिति वर्तमानग्रहः, सति च वियोगेऽसम्प्रयोगानुस्मरणं । सदैवैभिः सहासम्प्रयोगो वियोगो भूयादित्यनेनैष्य| कालग्रहः । चशब्दात्पूर्वमपि वियोगायोगयोर्मतत्वादतीतकालग्रहः ॥ ६॥ इति अनिष्टसम्प्रयोगनामा प्रथमो मेदः१। 'तह'
तह सूलसीसरोगाइवेयणाए विजोगपणिहाणं । तदसंपओगचिंता, तप्पडियाराउलमणस्स ॥ ७ ॥ तथाऽत्यर्थ शूलशीर्षरोगादिवेदनाया वियोगे प्रणिधानं दृढोऽभिप्रायः इति वर्तमानकालग्रहस्तथा तस्या वेदनाया अभावे सत्यसम्प्रयोगचिन्ता वियोगचिन्ता तत्प्रतिकाराकुलमनसो जीवस्य स्यात् । भविष्यातीतकालावत्र स्वयं ज्ञेयौ । वेदनाऽसम्प्रयोगनामा द्वितीयो भेदः २॥ ७॥ ' इट्ठा'
इट्ठाणं विसयाईण, वेयणाए य रागरत्तस्स । अवियोगऽज्झवसाणं, तह संजोगाभिलासो य ॥ ८॥ इष्टानां विषयादीनां, आदिशब्दाद्वस्तूनां, इष्टाया वेदनायाश्च सातवेद्यरूपाया रागरक्तस्यावियोगाध्यवसानं दृढोऽभिप्रायः,
॥४५॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org