________________
Jain Education Inte
असम्बद्धभाषणेन दूषयति । ३ । अन्तरायं पठतां कलहास्वाध्यायादिभिः करोति । ४ । ज्ञानस्य विसंवादयोगोऽकालस्वाध्यायादिना । ५ । दर्शनं सम्यक्त्वं तद्विराधनापि पञ्चधा । दर्शनप्रत्यनीकतया यथा सम्यक्त्ववन्तोऽपि नरकं गता इति निन्दया | १ | दर्शननिह्नवः दर्शनप्रभावकशास्त्राध्यापक परावर्त्तकथनं २ । अत्याशातना किमेभिः कलहशास्त्रैरिति । ३। अन्तरायं प्राग्वत् । ४ । दर्शनविसंवादयोगः शङ्कादिभिः । ५ । चारित्रं सर्वविरतिस्तस्य विराधना व्रतादिखण्डनेन । ७ । 'पडि०' चतुर्भिः कषायैः, कण्यते हिंस्यते दुर्गतौ आत्मा एभिरिति कषायाः क्रोधमानाद्याः स्पष्टाः । ८ । 'पडि०' चतसृभिः(संज्ञाभिः), सं सामस्त्येन ज्ञानं आहारादेरभिलाषः संज्ञा आहारेच्छा, सा चतुर्भिः स्थानैरुत्पद्यते - ऊनकोष्ठतया १ क्षुद्वेद्योदयात् २ आहारश्रवणोत्थमत्या ३ सदाऽऽहारमेव ध्यासतस्तदर्थोप योगेन ४ स्यात् । १ । भयसंज्ञा भयाविर्भावः चतुर्भिः स्थानैःहीनसत्त्वतया १ भयमोहोदयात् २ भयश्रवणोत्थमत्या ३ एकचित्ततया भये तदर्थोपयोगेन ४ । २ । मैथुनसंज्ञा मैथुनेच्छा सापि चतुर्भिः—उपचितमांसशोणितया १ वेद मोहनीयोदयेन २ मैथुनश्रवणाद्युत्थमत्या ३ गाढं मैथुने तदर्थोपयोगेन ४ । ३ । परिग्रहसंज्ञा परिग्रहेच्छा चतुर्भिः स्थानैः - अविवित्ततयाऽविवेकेनेत्यर्थः, अव्यक्ततयाऽज्ञानेनेति वा १ लोभोदयेन २ परिग्रहश्रवणाद्युत्थया मत्या ३ परिग्रहे तदर्थोपयोगेन ४ । ४ । आभिः संज्ञाभिः कृताभिर्यो दोषस्तस्य मिथ्या दुःकृतं । ९ । ‘पडि०’ चतसृभिर्विकथाभिः–विरूपा कथा विकथा, तत्र स्त्रीकथा चतुर्द्धा जातिकथा १ कुलकथा २ रूपकथा ३ नेपथ्यकथा ४ च । तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति द्वेष्टि वा १ । कुलकथा उग्रादिकुलजानामन्यतमां प्रशंसति द्वेष्टि वा २ । रूपकथां आन्ध्रिदेशप्रभृतीनामन्यतमारूपं प्रशंसति द्वेष्टि वा ३ । नेपथ्ये अन्यतमानां वेषं स्तौति निन्दति
For Private & Personal Use Only
www.jainelibrary.org