SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पनानिर्देशः सौधर्मेन्द्रस्थापना, द्रव्यनिर्देश आत्मा, एवं अन्येष्वपि ॥ १४३ ॥ इह समासोद्देशनिर्देशाभ्यामधिकारो यथा- निर्गमअध्ययनमिति सामायिकमिति, इदं च सामायिक रूढ्या क्लीवं, अस्य च निर्देष्टा लिङ्गत्रयेऽपि, ततः को नयः कं निर्देश- द्वारम् ॥ मिच्छतीत्याह-'दुवि' दुविहंपि णेगमणओ, णिद्देसं संगहोय ववहारो।निद्देसगमुज्जुसुओ, उभयसरित्थं च सद्दस्स ॥१४४॥ निर्देश्यनिर्देशकवशात् द्विविधं नैगमनयो लिङ्गनिर्देशमिच्छेत कोऽर्थः निर्देश्यं वाच्यं तद्वशाद्यथा षड्जीवनिकेत्यध्ययननामनिर्देशः, निर्देशको वक्ता तद्वशाद्यथा कापिलीयमध्ययनं, एवं नैगमो निर्देश्यं सामायिक रूढया क्लीबमिति तद्वशात्सामायि-12 कस्य क्लीबतां निर्देष्टुखिलिङ्गभावात्तत्परिणामाऽभिन्नत्वेन त्रैलिङ्ग्यमपीच्छेत् । संग्रहो व्यवहारश्च निर्देशकलिङ्गं यथावद्वस्तुपरं, निर्दिष्टं वस्त्वाश्रित्य लिङ्गनिर्देशमिच्छतः, क्लीवतां इत्यर्थः । निर्देशकमाश्रित्य ऋजुसूत्रस्त्रलिङ्ग्यमिति, उभयसादृश्यं शदनयस्य मतं, कोऽर्थः निर्देशकस्य निर्देश्यार्थोपयोगाऽभिन्नत्वानिर्देश्यरूपतैवेति द्वयोरपि क्लैब्यमिति द्वारं २ ॥ १४४ ॥ 'नाम' नामं ठवणा दविए, खित्ते काले तहेव भावे । एसो उ निग्गमस्सा, णिक्खेवो छविहो होइ ॥१४५॥ द्रव्यान्निर्गमः, निर्गमपदं योज्यं सर्वत्र । सचित्तात्सचित्तस्य बीजादंकुरस्य, सचित्तान्मिश्रस्य भूमेः पतङ्गस्य, सचित्तादचि. त्तस्या भूमेर्वाष्पस्य, मिश्रात्सचित्तस्य देहात कमेः, मिश्रान्मिश्रस्य स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य देहान्मलस्य, अचित्तात्सचि तस्य काष्ठात्कृमेः, अचित्तानमिश्रस्य काष्ठाद् घुणस्य । इह पतंगादीनां सजीवत्वेऽपि मिश्रत्वं किंचिनिर्जीवपक्षादिमत्वात, Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy