SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अनुयोगनिक्षेपाः॥ क्षेत्रेष्वर्धतृतीयद्वीपेषु । कालेन यथा बादरवायुकायिकानां वैक्रियाणि अद्धापल्यस्यासंख्येयभागमात्रेणापहियन्ते । कालैर्यथा प्रत्युत्पन्नत्रसाः प्रतिसमयमेकैकापहारेण हियमाणा असंख्योत्सर्पिणीभिईियन्ते । कालस्य कालानां (च) अनुयोगः स्पष्टः। काले द्वितीयषौरुष्यां, कालेषु सुषमदुःषमादिषु । वचनेनार्धमागधेन वचनैरष्टादशदेशीभाषाभिः, वचनस्यैकद्विवचनादेर्वचनानां षोडशानां, तत्र 'लिंगतियं वयणतियं कालतियं तह परुस्कपच्चरकं । उवणयऽवणयचउकं, सोलसमं होइ अज्झप्पं ॥१॥ लिङ्गत्रिकं स्त्रीलिङ्गादि ३, वचनत्रिकं एकवचनादि ३, कालत्रिकं अतीतादि ३, परोक्षं स इति, प्रत्यक्षं अयमिति, उपनयः स्तुतिः, अपनयो निन्दा, तयोर्वचनचतुष्कं यथा सुरूपा स्त्रीत्युपनयः, कुरूपेत्यपनयः, सुरूपा किन्तु कुशीलेत्युपनयापनयः, कुरूपा किन्तु सुशीलेत्यपनयोपनयः ४, तथा विप्रतारणार्थमन्यद्वक्तुकामोऽपि सहसा यच्चेतसि तदेव वक्ति तत्षोडशमध्यात्मवचनं । वचने क्षयोपशमजे, वचनेषु तु तथैव बहुषु । एवं भावस्यौदयिकादेरनुयोगः, भावानां तेषामेव बहूनां, भावेन संग्रहोपग्रहनिर्जराश्रुतपर्यायजाताऽव्युच्छित्तीनां पञ्चभावानामन्यतमेन, यथा शिष्याः सूत्रार्थसंग्राहकाः सन्तु १ तथा गीतार्थीभृता वस्त्रादिना गच्छोपग्राहकाः सन्तु २, तथा ममाप्यनुयोगदानात् कर्मनिर्जराऽस्तु ३, शिष्यान् वाचयतः | श्रुतपर्यायजातं वर्द्धतां ४, श्रुतस्य चाऽव्युच्छित्तिरस्तु ५, भावैस्त्वेतैः सर्वैः, भावे क्षायोपशमिके भावेषु तु न क्षायोपशमिकत्वेन, तस्यैकत्वात् , यद्वा नानाशास्त्रविषयभेदाद् भावेष्वपि । अथवा द्रव्यस्य वस्त्रादेः कुसुंभरागादिना पर्यायेण सहानुरूपो योगो अनुयोग इत्याद्यपि। अनुयोगग्रहणकाले तु सर्वानुयोगानामुपयोगः, एतद्विपरीतोऽननुयोगः, सोऽपि सप्तधा ॥१३२।। तत्र नाम स्थापने सुगमे द्रव्यक्षेत्रकालाधननुयोगानां तदनुयोगानां तु (च) दृष्टान्तानाह-वच्छ' For Private & Personal Use Only www.jainelibrary.org Jain Education inte
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy