SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आवश्यकसूत्रस्यार्थेन सहानुकूलो योगोऽनुयोगः, एवं निश्चितो योगो नियोगः, घटनाद् घट इति व्यक्ता वाग भाषा, घटः कुटः अनुयोगनियुक्ति NI इति पर्यायवाग विभाषा, सर्वविशेषोक्तिर्वार्तिकं, एतानीत्यादि प्राकृतत्वाल्लिङ्गव्यत्ययः ।। १३१ ॥ उक्तान्येकार्थिकानि २। IN निक्षेपाः॥ दीपिका ॥ अथ विभागः, स तु प्रवचनसूत्राणां पृथक एकार्थिकनामकथनेन सामान्यत उक्त एव । अनुयोगेकाथिकानां तु विभागं दर्शयति-'णाम ॥४४॥ णामं ठवणा दविए, खित्ते काले य वयणभावे य। एसो अणुओगस्स उ, णिखेवो होइ सत्तविहो१३२ ___नामाऽनुयोगः इत्यादि । नामस्थापने अवधिवत् । द्रव्यानुयोग आगमतोऽनुयोगपदार्थज्ञस्तत्र चानुपयुक्तः नोआगमतो ज्ञभव्यशरीरव्यतिरिक्तो द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्ये द्रव्येषु चाऽनुयोगः स्वरूपज्ञानं; एवं क्षेत्रादिष्वपि षट् योजना कार्या। तत्र द्रव्यानुयोगो द्विधा, जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगश्च । एकैकश्चतुर्धा द्रव्यादिभिः । तत्र द्रव्यतो जीव एकं द्रव्यं १, क्षेत्रतो असंख्यप्रदेशस्थ: २, कालतोऽनाद्यनन्तः ३, भावतोऽनन्तज्ञानदर्शन( चारित्राचारित्रदेश)चारित्रागुरुलघुपर्यायवान् ४ । अजीवद्रव्याण्यवादीनि, द्रव्यतोऽणु एकं द्रव्यं १, क्षेत्रत एकप्रदेशस्थः २, कालत एक समयाद्यसंख्योत्सर्पिणी. स्थितिः ३, भावतः एकरसवर्णगन्धो द्विस्पर्शः४ । एषां च खस्थानेऽनन्ता रसादिपर्याया एकगुणतिक्तादिभेदेन ज्ञेयाः। एवं द्रव्याणां जीवाजीवमेदानामपि, द्रव्येण खटिकया भङ्गकानां अनुयोगोऽर्थज्ञानं वा, द्रव्यैरक्षैः । द्रव्ये फलकादौ द्रव्येषु निषद्यासु । एवं क्षेत्रादिष्वपि, तत्र क्षेत्रेणानुयोगो यथाऽऽद्यद्वीपमानप्रस्थेन पृथ्वीजीवा मीयमाना असंख्यलोकाकाशप्रदेशसंख्याः प्रस्थाः स्युः, क्षेत्रैस्तैरेव बहुभिः प्रस्थैः । क्षेत्रस्य भरतादेः, क्षेत्राणां बहूनां, क्षेत्रे तियग्लोके भरतादौ वा, ॥४४॥ Jain Education inte For Private & Personal use only www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy