________________
| 'जीवदया' जीवयतना एव सर्वाभीष्टत्वात् सुन्दराणि कन्दराणि लघुतरविवराणि तेषु उत् प्राबल्येन वादलब्ध्या कुमतजयं प्रति दृप्ता बलिष्ठा मुनिवरा एव मृगेन्द्राः तैः आकीर्णं व्याप्तं जीवदयासुन्दरकन्दरोदृप्तमुनिवरमृगेन्द्राऽऽकीण, हेतुशतान्येव धातवः स्वर्णाद्याः, तथा प्रगलन्ति शमरसं सवन्ति, रत्नानि ज्ञानादीनि, तथा दीप्ता औषध्यो लब्धयो यासु ईदशा गुहाः सूत्रार्थभणनरूपा यस्य तं हेतुशतधातुप्रगलद्रत्नदीप्तौषधिगुहं, गुहास्तु प्रौढविवराणि ॥ १४ ॥ 'संवरं'संवरवरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउररवंतमोरनचंतकुहरस्स ॥१५॥ ___ संवरः पञ्चाश्रवविरतिः स एव कर्ममलक्षालनात् वरजलं तस्य प्रगलितो व्यूढ उज्झरः शमादिप्रवाहः तस्य प्रविराजमाना | धारा भावनारूपा यस्य तं संवरवरजलप्रगलितोज्झरप्रविराजमानधारं । श्रावकजना एवं प्रचुरा स्तुत्यादिभणनाद् रवन्तः शब्दयन्तो भक्त्या नृत्यन्तश्च मयूरा येषु ईशि जिनचैत्यादिरूपाणि कुट्टराणि कूटान्तराणि यस्य तं श्रावकजनप्रचुररवनृत्यन्मयूरकुहरम् ॥ १५ ॥ 'विणय'विणयनयपवरमुणिवरफुरतविज्जुज्जलंतसिहरस्स। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥
विनयनयाभ्यां प्रवरा अतएव मुनिषु वराः ते एव स्फुरन्त्यो विद्युतः ताभिः जलन्ति दीप्यमानानि मुनिरूपाणि शिखराणि यस्य तं विनयनयप्रवरमुनिवरस्फुरद्विधुज्वलच्छिखरं । विविधगुणा एवं कल्पवृक्षकाः, स्वार्थ कप्रत्ययः, तेषां फलभरो, धृतिसमाधिसुखादिरूपः, कुसुमानि नानाविधातिशयाः तैः आकुलानि वनानि अप्रमत्तसाध्वादिसमूहरूपाणि
Jain Education Internet
For Private & Personal Use Only
Halww.jainelibrary.org