SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ३ ॥ Jain Education International सम्मदंसणवरवइरदढरूढगाढावगाढपेढस्स | धम्मवररयणमंडिअचामीयर मेहलागस्स ॥ १२ ॥ गाथाः षट् मेरुवर्णने - सम्यग्दर्शनमेव सारत्वाद्वरं वज्रं वज्ररत्नं तन्मयं दृढं निश्चलं निशङ्कितादितया रूढं अनादिसिद्धं, गाढं निविडं सम्यक्त्वरुच्यात्मकतयाऽवगाढं भूमग्नं भव्यजीवान्तर्गतत्वेन स्थित्वात् पीठं मूलं यस्य तं सम्यग्दर्शनवरवज्रदृढरूढगाढा वगाढपीठं, सङ्घ महामन्दरगिरिं वन्दे इति सम्बन्धः द्वितीयार्थे षष्ठी । धर्म एव रत्नमंडिता चामीकरमेखला सुवर्णमयं कडणं यस्य तं धर्मवररत्नमंडितचामीकर मेखलाक । धर्मो द्विधा मूलगुणा उत्तरगुणाश्च, इह मूलगुणा मेखला उत्तरगुणास्तु वररत्नानि ॥ १२ ॥ ' निय' - नियमूसिय कणयसिलायलुज्जलजलंतचित्तकूडस्स । नंदणवणमणहर सुरभिसीलगंधु डुमायस्स ॥ १३ ॥ नियमा एव कनकशिलातलानि तेषूत्सृतानि उच्चानि शुभाशयवृद्ध्या, उज्वलान्यशुभाशयत्यागात्, ज्वलन्ति सूत्रार्थस्मृत्या, दीप्तत्वात् चित्तान्येव ( त्राण्येव ) कूटानि यस्मिन् तं नियमकनकशिलातलोत्सृतोज्वलज्वलच्चित्त (त्र ) कूटं, प्राकृतत्वात् उत्सृतशब्दव्यत्ययः । मेरुपक्षे नन्दनवनस्य मनोहरेण सुरभिस्वभावेन गन्धेन उद्धमायं संपूर्ण, सङ्घपक्षे तु नन्दयतीति नन्दनः सन्तोषः, 'वनषन संभक्तौ ' वनन्ति सेवन्त इति नन्दनवनाः साधवः तेषां मनोहरेण सुरभिणा शीलगन्धेन यशोरूपेण उद्घुमायं पूर्णं ॥ १३ ॥ 'जीव' - जीवदया सुंदरकंदरुद्दरियमुणिवरमईदइन्नस्स । हेउसयधाउपगलंतरयणदित्तोसहिगुहस्स ॥ १४ ॥ For Private & Personal Use Only अर्हत्स्तुतिः ॥ ३ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy